SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ २९४ अभिधानचिन्तामणौ सीदन्त्यस्मिन् सत्रं गृहं सर्वदादानं च, तदस्याऽस्ति सत्री तत्र ॥ १॥ गृहस्य पतिहपतिः ॥ २॥ दूतः संदेशहारकः ॥ ३९८ ॥ दूयतेऽनेन यथोक्तवादित्वात् पर इति दूतः "शीरी-" ॥ ( उणा-२०१)॥ इति कित्तः ॥ १॥ संदेशं मुखाख्यानं हरति संदेशहारकः ॥ २ ॥ ३९८ ॥ सन्धिविग्रहयानान्यासनद्वैधाश्रया अपि । षड्गुणाः सन्धानं सन्धिरेकत्वम् ॥ १॥ विरुद्धं ग्रहणं खस्थानात् परमण्डले दाहवि. लोपादि विग्रहः ॥१॥ यायते यानम् , यातव्यं प्रति यात्रा ॥१॥ आस्यते आसनंविग्रहादिनिवृत्तिः ॥१॥ द्वौ प्रकारौ द्विधा द्विधैव द्वैधमेकेन सन्धायान्यत्र यात्रेत्यर्थः' । . यद्वा बलिनोषितोर्मध्ये वाचात्मानं समर्पयन् । द्वैधीभावेन वर्तेत काकाक्षिवदलक्षितः ॥ १॥ अशक्त्या बलवदाश्रयणमाश्रयः संश्रयाख्यः ॥ १ ॥ गुण्यन्ते गुणा राज्योपकारकाः ॥ १ ॥ शक्तयस्तिस्रः प्रभुत्वोत्साहमन्त्रजाः ॥ ३९९ ॥ शक्यते जेतुमाभिः शक्तयः प्रभुत्वादिभवास्तिस्रस्तत्र कोशदण्डसमृद्धिः प्रभुत्वशक्तिः ॥१॥ उद्यम्य सहनमुत्साहशक्तिः ॥१॥ मन्त्रः पञ्चाङ्गो मन्त्रशक्तिः ॥१॥३९९॥ सामदानभेददण्डा उपायाः । उपत्येभिरित्युपायाः सामादयश्चत्वारः ॥ १ ॥ साम सान्त्वनम् । स्यति वैरमनेन साम प्रियवचनादि, क्लीबलिङ्गः "स्यतेरी च वा" ॥ ( उणा९१५)॥ इति मन् , सामयति वा॥ १॥ सान्व्यतेऽनेन सान्त्वनम् ॥ २॥ उपजापः पुनर्भेदः उपांशु जपनमुपजापः ॥ १॥ संहितयोर्भेदनं भेदः ॥ २॥ दण्डः स्यात् साहसं दमः ॥ ४००॥ दण्डनं दण्डः पुंक्लीबलिङ्गः ॥ १ ॥ सहसि बले भवं साहसं क्लीबलिङ्गः' वैजयन्ती तु-“दण्डो दमः साहसोऽस्त्रि" इति पुंस्यप्याह ॥२॥ दमनं दमः ॥३॥४०॥ प्राभृतं ढौकनं लञ्चोत्कोचः कौशलिकामिषे ।.
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy