________________
३ मर्त्यकाण्डः।
२९३
विषयानन्तरो राजा शत्रुः विजिगीषोर्विषयाजनपदादनन्तरोऽव्यवहितो राजा शत्रुः ॥ १॥
मित्रमतः परम् । अतः शत्रोः परं परभूमिष्ठं विजिगीषोर्मित्रम् ॥ १ ॥
उदासीनः परतरः शत्रुमित्रयोभूमिभ्यः परतर ऊर्ध्वमासीन इवोदासीनस्तटस्थः ॥ १॥
पाणिग्राहस्तु पृष्ठतः ॥ ३९६ ॥ विजिगीषोः पश्चात् स्थितो राजा पाणिमिव पाणि पश्चाद्भागं गृह्णात्यवष्टनाति पाणिग्राहः, पञ्चस्वतेषु द्वादशराजमण्डलं समाप्तम् । यदाहुः
अरिमित्रममित्रं मित्रमित्रमतः परम् । तथारिमित्रं मित्रं च विजिगीषोः पुरः स्मृताः ॥ १ ॥ पाणिग्राहस्तथाक्रन्द आसारौ च तयोः पृथक् । मध्यमोऽथाप्युदासीन इति द्वादशराजकम्” ॥२॥ १॥ इति अनुवृत्तिस्त्वनुरोधः अनुवर्तनमनुवृत्तिरिच्छानुवर्तनमित्यर्थः ॥ १॥ अनुरोधनमनुरोधः ॥ २ ॥
हेरिको गूढपूरुषः । प्रणिधिर्यथार्हवर्णोऽवसर्पो मन्त्रविच्चरः ॥ ३९७ ।।
वार्तायनः स्पशश्चारः
हिनोति परराष्ट्रं गच्छति हेरिकः, “कुशिक-" ॥ ( उणा-४५) ॥ इतीके निपात्यते ॥ १॥ गूढश्चासौ पूरुषश्च गूढपूरुषः ॥ २॥ प्रकर्षण गुप्तो निधीयते प्रणिधिः ॥ ३ ॥ देशकालोचितो वर्ण आकारः, जातिवर्णनं वाऽस्य यथार्हवर्णः ॥४॥ अवच्छन्नः सर्पति अवसर्पः ॥५॥ मन्त्रं वेत्ति मन्त्रवित् ॥ ६ ॥ चरति चरः ॥ ७ ॥ ३९७ ॥ वार्तामयते वार्तायनः ॥ ८ ॥ 'स्पशिः सौत्रस्तालव्यान्तः,' स्पशति बाधते परान् स्पशः ॥ ९ ॥ चर एव चारः प्रज्ञादित्वादण् ॥ १० ॥
आप्तप्रत्ययितौ समौ । आप्यते स्म आप्तः, अविसंवादिवाक् ॥ १ ॥ प्रत्यय आश्वासः संजातोऽस्य प्रत्ययितः ॥ २ ॥
सत्रिणि स्याद् गृहपतिः