SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौ शलति शवति वा सुखेन यात्यनेन शुल्क: पुंक्लीबलिङ्गः “ निष्कतुरुष्क - " ॥ ( उणा - २६ ) ॥ इति के निपात्यते, घटन्तेऽनेन, घट्टयति वा घट्टो नदीतरस्थानम्, आदिशब्दाद् गुल्मप्रतोल्यादि, ततः प्रवेश्य निःसार्य द्रव्येभ्यो राजग्राह्यो भागोऽत्र दौ दीयते घट्टादिदेयम् ॥ १ ॥ धर्माध्यक्षस्तु धार्मिकः ॥ ३८८ ॥ धर्माधिकरणी च २९० धर्मस्याध्यक्षो धर्माध्यक्षः ॥ १ ॥ धर्मे नियुक्तो धार्मिकः ॥ २ ॥ ३८८ ॥ धर्मेऽधिकारोऽस्त्यस्य धर्माधिकरणी ॥ ३ ॥ अथ हृट्टाध्यक्षोऽधिकर्मिकः । हट्टेष्वध्यक्षो हृट्टाध्यक्षः ॥ १ ॥ अध्युपरि कर्म अस्यास्ति अधिकर्मिकः, व्रीह्यादित्वादिकः ॥ २ ॥ चतुरङ्गबलाध्यक्षः सेनानीर्दण्डनायकः ॥ ३८९ ॥ " चतुरङ्गस्य हस्त्यश्वरथपदातिलक्षणस्य बलस्याध्यक्षश्चतुरङ्गबलाध्यक्षः ॥ १ ॥ सेनां नयति ईष्टे सेनानीः “ क्विप् ” ॥ ५ । १ । १४८ ॥ इति क्विप् ॥२॥ दण्ड सैन्यं नयति दण्डनायकः ॥ ३ ॥ ३८९ ॥ स्थायुकोऽधिकृतो ग्रा ग्रामेऽधिकृतो प्रामाध्यक्षः, तिष्ठत्येवंशीलः स्थायुकः “शुकमि -" ॥५॥२१४०॥ इत्युकण् ॥ १ ॥ गोपो ग्रामेषु भूरिषु । बहुषु प्रामेषु अधिकृतो गां भुवं पाति गोपः, गोपायतीति वा ॥ १ ॥ स्यातामन्तः पुराध्यक्षेऽन्तवै शिकावरोधिका ॥ ३९० ॥ " अन्तःपुरेष्वधिकृतोऽन्तःपुराध्यक्षस्तत्र वंशस्यान्तरन्तवंश कुलस्त्रियः ताः सन्त्यस्यान्तर्वेशिकः, आन्तर्वेश्मिकोऽपि ॥१॥ अवरोधे नियुक्त आवरोधिकः, आन्तःपुरिकोऽपि ॥ २ ॥ ३९० ॥ अध्यक्षशेषश्चात्र क्षुद्रोपकरणानां स्यादध्यक्षः पारिकर्मिकः । पुराध्यक्ष कोहपतिः पौरिको दाण्डपाशिकः ॥ शुद्धान्तः स्यादन्तः पुरमवरोधोऽवरोधनम् । शुद्धाः शुचयः सौविदल्ला अन्तेऽस्य शुद्धान्तः, पुंक्लीबलिङ्गः ॥ १ ॥ अन्तर्गत पुरस्य गृहस्यान्तःपुरम् ॥ २ ॥ अवरुध्यतेऽवरोधः, भुज्यादित्वात् कर्मण्यनव्यवरोधनम्, एते एकपुरुषपरिगृहीते स्त्रीसमुदाये वर्तन्ते, तन्निवासे तूपचारात् ॥ ३ ॥४॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy