________________
२८८
अभिधानचिन्तामणौ- .
__अमा सह, समीपे वा भवोऽमात्यः “केहामात्रतस-" ॥ ६ । ३ । १६ ॥ . इति त्यच् , अमा सह अततीति वा ॥ १ ॥ सचते धिया समवैति सचिवः “पलिसचेरिवः" ॥ (उणा- ५२२) ॥ २ ॥ मन्त्रः कर्तव्यावधारणमस्त्यस्य मन्त्री ॥३॥ धिया सखा धीसखः “राजन्सखः” ॥ ७ । ३ । १०६ ॥ इत्यत्समासान्तः, बुद्धिसहायोऽपि ॥ ४ ॥ समवायेन चरति सामवायिकः ॥ ५॥
नियोगी कर्मसचिव आयुक्तो व्यापृतश्च सः ॥ ३८३ ॥ . नियोगोऽस्त्यस्य नियोगी ॥ १॥ कर्मसु सचिवः कर्मसचिवः, कर्मसहायः॥२॥ आयुज्यते स्म आयुक्तः ॥ ३ ॥ व्याप्रियते स्म व्यापृतः ॥ ४ ॥ ३८३ ॥ . '
द्रष्टा तु व्यवहाराणां प्राड्विाकोऽक्षदर्शकः । द्रष्टा निर्णता व्यवहाराणां ऋणादानादिन्यायानां, पृच्छतीत्येवंशील: प्राद "दिद्यद्दद्द-" ॥ ५। २ । ८३ ॥ इति क्विपि निपात्यते, प्राट् चासौ विविधवाकश्च प्राविवाकः ॥१॥ अक्षान् व्यवहारान् पश्यति अक्षदर्शकः ॥ २॥ शेषश्चात्र- स्याद् न्यायद्रष्टरि स्थेयः॥
महामात्राः प्रधानानि महती मात्रा परिच्छद एषां महामात्राः ॥१॥ प्रधीयते एप्विति प्रधानानि, अमात्यपुरोहितसेनापत्यादयः, आविष्टलिङ्गोऽयम् ॥ २ ॥
पुरोधास्तु पुरोहितः ॥ ३८४ ॥
सौवस्तिकः पुरोधीयते पुरोधीः " वयःपयःपूरोरेतोभ्यो धागः " ॥ (उणा- ९७४) इत्यस् ॥ १ ॥ पुरोधीयते हिनोति स्म पुरोहितः ॥ २ ॥ ३८४ ॥ स्वस्तीति ब्रूते सौवस्तिकः, प्रभूतादित्वादिकणि द्वारादित्वादौकारागमः ॥ ३ ॥
अथ द्वारस्थः क्षत्ता स्याद द्वारपालकः ।
दौवारिकः प्रतीहारो वेव्युत्सारकदण्डिनः ॥ ३८५ ॥ द्वारे तिष्ठतीति द्वारस्थः “स्थापास्त्रात्रः-" ॥ ५। १ । १४२ ॥ इति कः, द्वाःस्थद्वास्थितावपि ॥ १॥ क्षदः सौत्रः, क्षदति संवृणोति द्वारं क्षत्ता "त्वष्टक्षत्तु-" ॥ (उणा-८६५) ॥ इति तृः ॥ २ ॥ द्वारं पालयति द्वारपालः, के द्वारपालकः ॥३॥ द्वारे नियुक्तो दौवारिकः " तत्र नियुक्ते” ॥ ६ । ४ । ७४ ॥ इतीकणि द्वारादित्वादौकारागमः ॥ ४ ॥ प्रतिहियते वार्यतेऽनेन प्रतिहारः “घञ्युपसर्गस्य-" ॥ ३ । २ । ८६ ॥ इति दीर्घत्वे प्रतीहारः ॥ ५॥ वेत्रं दण्डोऽस्त्यस्य वेत्री, वेत्रधरोऽपि ॥ ६ ॥ उत्सारयत्युत्सारकः ॥ ७ ॥ दण्डोऽस्त्यस्य दण्डी ॥ ८ ॥ ३८५ ॥
शेषश्चात्र- द्वाःस्थे द्वाःस्थितदर्शकः ॥