SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ ३ मर्यकाण्डः। २८५ • ग्रन्थिकस्तु सहदेवो नकुलस्तन्तिपालकः।। माद्रेयाविमौ, कौन्तेया भीमार्जुनयुधिष्ठिराः ॥ द्वयेऽपि पाण्डवेयाः स्युः पाण्डवा पाण्डवायनाः॥ तस्य गाण्डीवं गाण्डिवं धनुः । तस्यार्जुनस्य धनुर्गाण्डीवम् , गाण्डी धनुष्पर्व साऽस्त्यस्य गाण्डीवम् , गाण्डिरस्त्यस्य गाण्डिवम् , मण्यादित्वाद् वः, पुंक्तीबलिङ्गावेतौ ॥ १ ॥ २ ॥ पाञ्चाली द्रौपदी कृष्णा सैरन्ध्री नित्ययौवना ॥ ३७४ ॥ वेदिजा याज्ञसेनी च पञ्चालस्य राज्ञोऽपत्यं पाञ्चाली “राष्ट्रक्षत्रिया-" ॥ ६।१।११४ ॥ इत्यञ् ॥१॥ द्रुपदस्य राज्ञोऽपत्यं द्रौपदी ॥ २ ॥ कर्षति मनः कृष्णा, वर्णेन वा ॥ ३ ॥ विराटगृहे सैरन्ध्रीकर्मकारित्वात्सैरन्ध्री ॥ ४॥ नित्यं यौवनमस्या नित्ययौवना ॥ ५ ॥ ३७४ ॥ यज्ञवेदेर्जाता वेदिजा ॥ ६ ॥ यज्ञसेनस्यापत्यं याज्ञसेनी ॥ ७ ॥ कर्णश्चम्पाधिपोऽङ्गराट् । राधा-सूता-ऽर्कतनयः किरति शत्रूनिति कर्णः ॥ १ ॥ चम्पाया नगर्या अधिपः चम्पाधिपः ॥२॥ अङ्गानां जनपदस्य राजा अङ्गराट् ॥३॥ राधायाः, सूतस्य, अर्कस्य च तनयो राधातनयः, सूततनयः, अर्कतनयः, यौगिकत्वाद् राधेय इत्यादयः ॥ ४ ॥ ५ ॥ ६ ॥ - कालपृष्ठं तु तद्धनुः ॥ ३७५ ॥ तस्य कर्णस्य धनुः, कालः पृष्ठेऽस्य कालपृष्ठम् ॥ १॥ ३७५ ॥ श्रेणिकस्तु भम्भासारः श्रेणीः कायति श्रेणिको मगधेश्वरः ॥१॥भम्भा जयढक्कैव सारमस्य भम्भासारः ॥२॥ हालः स्यात् सातवाहनः । हलत्यरातिहृदयं हालः, ज्वलादित्वाण्णः॥१॥ सातं दत्तसुखं वाहनमस्य सातवाहनः, सालवाहनोऽपि ॥ २॥ कुमारपालश्चौलुक्यो राजर्षिः परमार्हतः ॥ ३७६ ॥ मृतखमोक्ता धर्मात्मा मारिव्यसनवारकः । - कुमारान् शिशूनिव प्रजाः पालयतीति कुमारपालः, मयूरव्यंसकादित्वात् समासे साधुः, कुं पृथ्वीं मां लक्ष्मी च अरमत्यर्थ पालयति वा कुमारपालः ॥ १॥ चुलु
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy