________________
२८४
अभिधानचिन्तामणौ
धर्मस्य पुत्रो धर्मपुत्रः ॥ ३ ॥ युधि स्थिरो युधिष्ठिरः “गवियुधेः-" ॥२॥३॥२५॥ इति षत्वम् , सप्तम्यलक् च ॥४॥ कङ्को ब्राह्मणलिङ्गत्वात् , यद्गौड:-"कृतान्त लोह पृष्ठे च कङ्को ब्राह्मणलिङ्गिनि" । युधिष्ठिरो हि ब्राह्मणच्छद्मना विराटावासेऽवात्सीत्, इति ॥ ५ ॥ अजास्त्रिवार्षिका यवा मीढा अनेन अजमीढः ॥ ६ ॥
भीमस्तु मरुत्पुत्रो वृकोदरः ॥ ३७१ ॥ किरि-कीचक-बक-हिडिम्बानां निसूदनः । बिभ्यत्यस्मादिति भीमः ॥ १ ॥ मरुतो वातस्य पुत्रो मरुत्पुत्रः ॥२॥ पको भीमजठराग्निः स उदरेऽस्य वृकोदरः ॥३॥३७१॥ किरति किर्मीरः “ जम्वीराभीर-" ॥ (उणा-४२२) ॥ इति ईरे निपात्यते । कच्यते बध्यते भीमेन कीचकः "कीचकपेचक-" ॥ ( उणा-३३ ) ॥ इत्यके निपात्यते । बक इव शाठयेन बकः हिण्डते वनमध्ये हिडिम्बः “ हिडिविलेः किम्बो नलुक् च " ॥ (उणा-३२४ ) ॥ इति साधुः । तेषां निसूदनः किरिनिसूदना, कीचकनिसूदनः, वृकनिसूदनः, हिडिम्बनिसूदनः यौगिकत्वात् किर्मीरारिरित्यादयोऽपि॥ ४ ॥ ५॥ ६ ॥ ७ ॥ ... अर्जुनः फाल्गुनः पार्थः सव्यसाची धनञ्जयः ।। ३७२ ॥
राधावेधी किरीट्यन्द्रिर्जिष्णुः श्वेतहयो नरः । बृहन्नटो गुडाकेशः सुभद्रेशः कपिध्वजः ॥ ३७३ ॥
बीभत्सुः कर्णजित्
अर्जति कीर्तिमर्जुनः ॥ १॥ फलति फल्गुनः “ फलेोऽन्तश्च" ॥ (उणा२९१) । इत्युनः, प्रज्ञादित्वात्स्वार्थेऽणि फाल्गुनः; फल्गुन्योर्जात इति वा ॥ २ ॥ पृथायाः कुन्त्या अयं पार्थः ॥ ३ ॥ सव्येनापि सचते बाणान् वर्षति सव्यसाची ॥४॥धनं गोधनं विराटनगरे कौरवेभ्यो जयति धनञ्जयः "भृवृजि-"||५।१।११२॥ इति खः ॥ ५॥ ३७२ ।। राधां वेध्यविशेष वेधयति राधावेधी ॥ ६॥ किरीटमस्त्यस्य किरीटी ॥ ७ ॥ इन्द्रस्यापत्यमैन्द्रिः ॥ ८ ॥ जयनशीलो जिष्णुः ॥ ९ ॥ श्वेता हया अस्य श्वेतहयः ॥ १० ॥ नृणाति नरः ॥ ११ ॥ बृहंश्चासौ नटश्च बृहन्नटः, विराटगृहे छद्मना नाट्याचार्योऽसावभूदिति प्रसिद्धिः ॥ १२ ॥ गुडा गुटिका तदाकाराः केशा अस्य गुडाकेशः ॥ १३ ॥ सुभद्राया ईशः पतिः सुभद्रेशः ॥१४॥ कपिर्ध्वजोऽस्य कपिध्वजः ॥ १५ ॥ ३७३ ॥ बीभत्सते बीभत्सः, बीभत्सुरपि ॥१६॥ कर्ण जितवान् कर्णजित् , यौगिकत्वात् कर्णारिरित्यादयोऽपि ॥१७॥ शेषश्चात्र
अर्जुने विजयश्चित्रयोधी चित्राङ्गसूदनः। योगी धन्वी कृष्णपक्षो नन्दिघोषस्तु तद्रथः ॥ .