________________
२८३
--- ३ मर्त्यकाण्डः । । रामपुत्रौ कुशलवावेकयोक्त्या कुशीलवौ । '
रामस्य पुत्रौ रामपुत्रौ, कुशः कुश्यति कुशनिर्मितत्वाद्वा ॥१॥ लुनाति शत्रून् लवः, द्वावप्येकेन वचसा कुशश्च लवश्च कुशीलवौ, राजदन्तादित्वात्साधुः ॥ २ ॥
सौमित्रिर्लक्ष्मणः सुमित्राया अपत्यं सौमित्रिः, बाह्वादित्वादिञ् ॥ १॥ लक्ष्मीरस्त्यस्य ल. क्ष्मणः ॥ २॥
. वाली वालिरिन्द्रसुतश्च सः ॥ ३६८॥
वालाः सन्त्यस्य वाली ॥ १ ॥ वालयतीति वालिः " खरेभ्य इः” ॥ (उ. णा-६०६) ॥२॥ इन्द्रस्य सुत इन्द्रसुतः, सुग्रीवाग्रजोऽपि ॥ ३ ॥ ३६८ ॥ ... आदित्यसूनुः सुग्रीवः ... आदित्यस्य सूनुरादित्यसूनुः ॥ १ ॥ शोभना ग्रीवाऽस्य सुग्रीवः ॥ २॥
हनुमान् वज्रकङ्कटः।
मारुतिः केशरिसुत आञ्जनेयोऽर्जुनध्वजः ॥ ३६९ ॥ हनुरस्त्यस्य हनुमान् “घञ्युपसर्गस्य बहुलम् " ॥ ३ । २ । ८६ ॥ इति दीर्घत्वे हनूमानपि ॥ १ ॥ वज्रमयः कङ्कटोऽस्य वज्रकङ्कदः ॥२॥ मास्तस्यापत्यं मारुतिः ॥ ३ ॥ केशरिणः कपेः सुतः केशरिसुतः ॥ ४ ॥ अञ्जनाया . अपत्यमाञ्जनेयः ॥ ५ ॥ अर्जुनस्य पार्थिवस्य ध्वजाऽर्जुनध्वजः ॥ ६ ॥ ३६९ ॥
पौलस्त्यो रावणो रक्षो-लकेशो दशकन्धरः । पुलस्तेरपत्यं वृद्धं पौलस्त्यः, गर्गादित्वाद् यञ् , पुलस्त्यस्यापत्यमिति वा " ऋषिवृष्णि-" ॥ ६।१६१ ॥ इत्यण् ॥ १ ॥ विश्रवसोऽपत्यं रावणः " णश्च विश्रवसो विश्लुक् च " ॥ ६।१।६५ ॥ इति णे साधुः, रावयति लोकानिति वा॥२॥ रक्षसां लङ्कायाश्चेशो रक्षईशः, लङ्केशः, यौगिकत्वाद् राक्षसेशः, लङ्कापतिः ॥३॥४॥ दश कन्धरा अस्य दशकन्धरः, दशास्य-दशशिरो-दशकण्ठा अपि ॥ ५॥ ...
रावणिः शक्रजिद् मेघनादो मन्दोदरीसुतः ॥ ३७० ॥ ... रावणस्यापत्यं रावणिः ॥ १॥ शक्रं जितवान् शक्रजित् ॥ २ ॥ मेघस्येव नादोऽस्य मेघनादः ॥ ३ ॥ मन्दोदर्याः सुतः मन्दोदरीसुतः ॥ ४ ॥ ३७० ॥ ..
अजातशत्रुः शल्यारिधर्मपुत्रो युधिष्ठिरः ।
कङ्कोऽजमीढः न जाताः शत्रवोऽस्य अजातशत्रुः ॥ १॥ शल्यस्य राज्ञोऽरिः शल्यारिः॥२॥