SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ २८२ अभिधानचिन्तामणौ धुन्धुमारः कुवलाश्वः धुन्धुमसुरं मारयति धुन्धुमारः ॥ १ ॥ कुवलं कुवलयं तद्वर्णा अश्वा अस्य कुवलाश्वः ॥ २ ॥ हरिश्चन्द्रस्त्रिशङ्कुजः । C हरिश्चन्द्र इव आह्लादकोsस्य हरिश्चन्द्रः, वर्चस्कादित्वात् साधुः ॥ १ ॥ त्रिशङ्कोर्जातस्त्रिशङ्कुजः ॥ २ ॥ पुरूरवा बौध एल उर्वशीरमणश्च सः || ३६५ ॥ पुरू रौति पुरूरवाः " विहायस्सुमनस्- " ॥ ( उणा - ९७६ ) ॥ इत्यि निपात्यते ॥ १ ॥ बुधस्यायं बौधः ॥ २ ॥ इलाया अपत्यमैलः, शिवादित्वादण् ॥ ३ ॥ उर्वश्या रमण उर्वशीरमणः || ४ | ३६५ ॥ दौप्यन्तिर्भरतः सर्वेदमः शकुन्तलात्मजः । दुष्यन्तस्यापत्यं दौष्यन्तिः ॥ १ ॥ बिभर्ति पृथ्वीं भरतः ॥ २ ॥ सर्वान् दमयति सर्वन्दमः, सर्वदमनोऽपि ॥ ३ ॥ शकुन्तलाया आत्मजः शकुन्तलात्मजः ॥४॥ हैहयस्तु कार्तवीर्यो दोःसहस्रभृदर्जुनः ॥ ३६६ ॥ हैहयस्यापत्यं वृद्धं हैहयः ।। १ ॥ कृतवीर्यस्यापत्यं कार्तवीर्यः " ऋषिवृष्णि" - ।। ६ । १ । ६१ ।। इत्यण् ॥ २ ॥ दोः सहस्रं बिभर्ति दोः सहस्रभृत् ॥ ३ ॥ अर्जति कीर्तिमर्जुनः “ यम्यजि - ” ॥ ( उणा - २८८ ) ॥ इत्युनः । मान्धातादयोऽमी लोके षट् चक्रवर्तित्वेन प्रसिद्धाः; यदाहुः " " मान्धाता धुन्धुमारश्च हरिश्चन्द्रः पुरूरवाः. । भरतः कार्तवीर्यश्च षडेते चक्रवर्तिनः " ॥ ४ ॥ ३६६ ॥ कौशल्यानन्दनः दाशरथी रामः कौशल्याया नन्दनः कौशल्यानन्दनः || १|| दशरथस्यापत्यं दाशरथिः ॥ २ ॥ रमते रामः, रामचन्द्रैकदेशो वा, रामभद्रोऽपि ॥ ३ ॥ अस्य तु प्रिया । वैदेही मैथिली सीता जानकी धरणीसुता || ३६७ ॥ अस्य रामस्य प्रिया भार्या विदेहस्य राज्ञोऽपत्यं वैदेही “ राष्ट्रक्षत्रिया ॥ ६ ॥ १ ॥ ११४ ॥ इत्यन् ॥ १ ॥ मिथिलायां भवा मैथिली ॥ २ ॥ सिनोति सतीत्वं सीता “ मुसितनि- " ॥ ( उणा - २०३ ) ॥ इति तः, दीर्घश्च; सीता हलरेखा तद्भवत्वाद् वा ॥ ३ ॥ जनकस्यापत्यं जानकी ॥ ४ ॥ धरण्याः पृथिव्याः सुता धरणीसुता ॥ ५ ॥ ३६६ ॥ "
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy