SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ २८०. अभिधानचिन्तामणौ-... "दृष्ट्वा वंशत्रयं पृष्ठे त्रिपृष्ठ इति भूपतिः। नाम तस्याकरोत्सूनोरुत्सवेन महीयसा" ॥ १ ॥ इति। अथ द्विपृष्ठो ब्रह्मसंभवः । द्वौ वंशौ पृष्ठेऽस्य द्विपृष्ठः ॥ १ ॥ ब्रह्मणो राज्ञः संभवति ब्रह्मसंभवः ॥ २ ॥ स्वयंभू रुद्रतनयः स्वयं भवतीति स्वयंभू ः ॥ १॥ रुद्रनृपतेस्तनयो रुद्रतनयः ॥ २ ॥ __ सोमभूः पुरुषोत्तमः ॥ ३५९ ॥ सोमाद् राज्ञो भवति सोमभूः ॥ १ ॥ पुरुषेषूत्तमः पुरुषोत्तमः ॥२॥३५९॥ शैवः पुरुषसिंहः शिवस्य राज्ञोऽपत्यं शैवः, शिवादित्वादण् ॥१॥ पुरुषेषु सिंह इव पुरुषसिंहः॥२॥ अथ महाशिरःसमुद्भवः । स्यात्पुरुषपुण्डरीकः महाशिरसो राज्ञः समुद्भवति महाशिरःसमुद्भवः ॥ १ ॥ पुरुषेषु पुण्डरीको व्याघ्र इव पुरुषपुण्डरीकः ॥ २ ॥ दत्तोऽग्निसिंहनन्दनः ॥ ३६० ॥ दीयते स्म दत्तः ॥ १ ॥ अग्निसिंहस्य राज्ञो नन्दनः अग्निसिंहनन्दनः नारायणो दाशरथिः नुर्धर्म नराणां समूहो वा नारम् , नारमयते नारायणः ॥१॥ दशरथस्थापत्यं दाशरथिः ॥ २॥ कृष्णस्तु वसुदेवभूः । कृष्णवर्णत्वात् कृष्णः, कति शत्रूनिति वा ॥१॥वसुदेवाद् भवति वसुदेवभूः॥२॥ वासुदेवा अमी कृष्णा नव वसुभिर्दीव्यन्ते वसुदेवास्त एव प्रज्ञाद्यणि वासुदेवाः, अमी पूर्वोक्ताः, कृष्णा वर्णेनेति ॥ शुक्ला बलास्त्वमी ॥ ३६१ ॥ नव इत्येव अमी वक्ष्यमाणाः, बलमस्त्येषां बलाः, बलदेवैकदेशो वा । शुक्ला वर्णेन ॥३६१॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy