SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ ३ मर्त्यकाण्डः । २७९ __ मघन्ते शत्रुषु . मघवा “श्वन्मातरि-" ॥ ( उणा-९०२) ॥ इत्यनि निपात्यते, मघवा शक इव वा ॥ १ ॥ विजयस्यापत्यं वैजयिः ॥ २ ॥ अथाश्वसेननृपनन्दनः ॥ ३५६ ॥ सनत्कुमारः __ अश्वसेननृपस्य नन्दनोऽश्वसेननृपनन्दनः ॥ १ ॥ ३५६ ॥ सनत् नित्यं कुमार इव रूपवत्त्वात् सनत्कुमारः ॥ २ ॥ .अथ शान्तिः कुन्थुररो जिना अपि । शान्तिनाथादयः प्रागुक्तास्त्रयस्तीर्थकृतोऽपि चक्रवर्तिनः ॥१॥१॥१॥ सुभूमस्तु कार्तवीर्यः सुष्ठु जातमात्रेण सुखेन गृहीता भूमिरनेन पृषोदरादित्वात् सुभूमः, यदवोचाम-"गृह्णन् भूमि सुखेनाभूत् सुभूमो नामतस्ततः” ॥१॥ कृतवीर्यस्यायं कार्तवीर्यः ॥ २ ॥ ___पद्मः पद्मोत्तरात्मजः ॥ ३५७ ।। पद्यते निधींनिति पद्मः “अर्तीरि-" ॥ ( उणा-३३८ ) ॥ इति मः, पद्मोत्तरात्मजः ॥ १॥२॥ ३५७ ॥ हरिषेणो हरिसुतः हरेरिन्द्रस्येव सेनाऽस्य हरिषेण: "एत्यकः” ॥२३॥२६॥ इति षत्वम्॥१॥ हरेः मापालस्य सुतो हरिसुतः ॥ २ ॥ जयो विजयनन्दनः । जयत्यरातीनिति जयः ॥ १॥ विजयस्य नन्दनो विजयनन्दनः ॥ २॥ ब्रह्मसूनुर्ब्रह्मदत्तः ब्रह्मणो राज्ञः सूनुर्ब्रह्मसूनुः ॥ १ ॥ ब्रह्मा एनं देयात् ब्रह्मदत्तः “ तिक्कृतौ नाम्नि " ॥ ५।१।७१ ॥ इति क्तः ॥ २ ॥ एवं द्वादश चक्रवर्तिनः ॥ सर्वेऽपीक्ष्वाकुवंशजाः ॥ ३५८ ॥ सर्वेऽपि द्वादशापीक्ष्वाकोशे जाता इक्ष्वाकुवंशजाः ॥ ३५८ ॥ अथार्धचक्रवर्तिनो वासुदेवानाह प्राजापत्यस्त्रिपृष्ठः __ प्रजापते राज्ञोऽपत्यं प्राजापत्यः “अनिदमि-" ॥६।१।१५॥ इति व्यः ॥१॥ त्रयो वंशाः पृष्टेऽस्य त्रिपृष्ठः, यदवोचाम
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy