SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ २७८ अभिधानचिन्तामणौ-. क्विपि षत्वम् "धुटस्तृतीयः" ॥२॥११७६॥ इति डत्वम् , “ विरामे वा" ॥१॥ ३।५१॥ इति टत्वम् ॥ २ ॥ पृथिव्यां शक्र इव पृथिवीशक्रः ॥ ३ ॥ मध्यलोकस्य ईशो मध्यलोकेशः ॥ ४ ॥ भुवं बिभतीति भूभृत् ॥ ५॥ ३५३ ॥ महीं क्षयत्यधिवसति महीक्षित् ॥ ६ ॥ पृथिव्या ईशः पार्थिवः “पृथिवीसर्वभूमे-" ॥ ६ । ४। १५६ ॥ इत्यण् ॥७॥ मूर्धन्यभिषिच्यते स्म मूर्धाभिषिक्तः, मूर्धावसित्तोऽपि ॥८॥ भुवं प्रजां नूंश्च पाति भूपः, प्रजापः, नृपः, यौगिकत्वाद् भूपालः, लोकपालः, नरपाल इत्यादयः ॥ ९ ॥ १० ॥ ११ ॥ मध्यमो मण्डलाधीशः मध्यमः सामान्योऽप्रेतनापेक्षया ॥१॥ मण्डलमात्रस्याधीशो मण्डलाधीशः ॥ २ ॥ सम्राट् तु शास्ति यो नृपान् ॥ ३५४ ॥ .... यः सर्वमण्डलस्येशो राजसूयं च योऽयजत् ।। . सम्यग् राजते सम्राट “ सम्राट" ॥ १।३ । १६ ॥ इति साधुः । ॥१॥ चक्रवर्ती सार्वभौमः चक्रायुधरत्नेन वर्तते चक्रवर्ती, नृपाणां चक्रे समूहे वर्तते स्वाम्येनेति वा, चक्रं राष्ट्रं वर्तयतीति वा ॥ १ ॥ सर्वस्या भूमेरीशः सार्वभौमः "पृथिवीसर्वभूमे-" ॥ ६ । ४ । १५६ ॥ इत्यञ् , अनुशतिकादित्वादुभयपदवृद्धिः ॥ २ ॥ शेषश्चात्र- चक्रवर्तिन्यधीश्वरः ॥ । ते तु द्वादश भारते ॥ ३५५ ॥ . ते तु चक्रवर्तिनो भारते वर्षे द्वादश अवसर्पिणीकाले भवन्ति स्म ॥ ३५५ ॥ अथ तान् क्रमेणाह आर्षभिर्भरतस्तत्र तत्र तेषु चक्रवर्तिषु प्रथमश्चक्रवर्ती ऋषभस्यादितीर्थकृतोऽपत्यमार्षभिः, "अत इञ्” ॥ ६॥ १ ॥ ३१ ॥ १॥ बिभर्ति षट्खण्डं भरतक्षेत्रं भरतः “दृपृभृ." ॥ ( उणा-२०७ ) ॥ इत्यतः ॥ २॥ : सगरस्तु सुमित्रभूः । सहते सर्व सगरः " जठर-" ॥ ( उणा-४१३ ) ॥ इत्यरे निपात्यते ॥१॥ सुमित्रविजयाद् भवति सुमित्रभूः ॥ २ ॥ .. मघवा वैजयिः :
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy