SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ २७६ अभिधानचिन्तामणौ १६३ ) ॥ इति कित् ठः || २ || आस्यतेऽस्मिन्त्रासनं, पुंक्लीबलिङ्गः || ३|| ३४८ ॥ कसिपुर्भोजनाच्छादौ कसति गच्छति क्लेशोऽनेन कसिपुः पुंक्लीबलिङ्गः " कस्यर्तिभ्या -" || ( उणा७९८) इति पुक् । अमरस्तु - ' कशति क्लेशं कशिपुः ' इति तालव्यमध्यमाह । भोजनं चाच्छादश्च भोजनाच्छादौ द्वयं युगपदुच्यते ॥१॥ औशीरं शयनासने उश्यते कास्यते उशीरं तदेव प्रज्ञायणि औशीरं शयनासने युगपदुच्येते ॥ १ ॥ लाक्षा द्रुमामयो राक्षा रङ्गमाता पलङ्कषा || ३४९ ॥ जतु क्षतघ्ना कृमिजा << 93 " >> लसति श्लिष्यति लाक्षा लाक्षाद्राक्षा- ॥ ( उणा-५९७ 2 ) ॥ इत्यक्षे निपात्यते ॥ १ ॥ द्रुमस्यामय इव निर्यासो द्रुमामयः ॥ २ ॥ रक्षति देहं राति वा राक्षा लाक्षा- ॥ ( उणा - ५९७ ) ॥ इति निपात्यते ॥ ३ ॥ रङ्गस्य मातव रङ्गमाता ॥ ४ ॥ पलं कषति पलङ्कषा " बहुलम् ॥ ५।१।२ ॥ इत्यत्रापि खश् ॥५॥३४९॥ जायते जतु क्लीबलिङ्गः “मनिजनिभ्यां धतौ च " ॥ ( उणा - ७२१) ॥ इत्युः ॥ ६ ॥ तं हन्यते दह्यतेऽनया क्षतघ्ना, स्थादित्वात् के साधुः ॥ ७॥ कृमिभिर्जन्यते कृमिजा " क्वचित् " ||५|१|१७१ ॥ इति डः ॥ ८ ॥ यावालक्तौ तु तद्रसः । यूयते यति वा यवः स एव प्रज्ञायणि यावः, के यावकोऽपि ॥१॥ न लजते, अलति वा अलक्तः " पुतपित- " ॥ ( उणा - २०४ ) ॥ इति ते निपात्यते, यद्वा ईषद्रो रक्तस्ततो रस्य लत्वं केऽलक्तकोपि तस्या लाक्षाया रसस्तद्रसः, यद्धनपालः' तद्रागो यावकोऽलक्तकः स्मृतः अमरादयस्तु- यावालक्तौ लाक्षादिभिः सहैकार्यावाहुः || २ || " <3 अञ्जनं कज्जलं "" अज्यतेऽनेनाञ्जनम् ॥१॥ कजति व्यथते चक्षुः कज्जलं " मुरलोरल " H ( उणा - ४७४ ) ॥ इत्यले निपात्यते ॥ २ ॥ दीपः प्रदीपः कज्जलध्वजः ॥ ३५० ॥ स्नेहप्रयो गृहमणिर्दशाकर्षो दशेन्धनः । दीप्यते दीपः, पुंक्लीबलिङ्गः ॥ १ ॥ प्रः खार्थे, मेरुः सुमेरुवत्, प्रदीपः ॥२॥ कज्जलं ध्वजोऽस्य कज्जलध्वजः ॥ ३ ॥ ॥ ३५० ॥ स्नेहस्तैलं प्रियमस्य स्नेहप्रियः ॥ ४ ॥ गृहस्य मणिरिव गृहमणिः ॥ ५ ॥ दशां वर्तिमाकर्षति दशाकर्षः ॥ ६ ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy