SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ .२७२ अभिधानचिन्तामणौ "चलनी त्वितरस्त्रियाः इतरस्याः स्त्रिया अर्धोरुकवस्त्रं चलत्यनया चलनी ॥ १ ॥ चोलः कञ्चुलिका कूर्पासकोऽङ्गिका चकञ्चुके ॥ ३३८ ॥ "" चुलिः सौत्रः, चुल्यतेऽनन चोलः ॥ १ ॥ कञ्च्यते दीप्यतेऽनया, कच्यते बध्यते वा कञ्चुली " कुमुलतुमुल- ॥ ( उणा - ४८७ ) ॥ इत्युले निपात्यते, के कञ्चुलिका अर्थात् स्त्रिया एव, कं चोलतीति वा ॥ २ ॥ कुरांत कूर्पासः “ कृकुरिभ्यां पासः ॥ ( उणा - ५८३ ) | के कूर्पासकः, कूर्परेऽस्यते वा, कूर्पासोऽपि ,, ॥ ३ ॥ अङ्गस्य प्रतिकृतिरङ्गिका ॥ ४ ॥ कञ्च्यते बध्यते कञ्चुकः, पुंक्लीबलिङ्गः कञ्चुकां- ॥ ( उणा - ५७ ) ॥ इत्युके निपात्यते, तत्र ॥ ५ ॥ ३३८ ॥ " शाटी चोटी 66 शाटयति कटिं शास्तालव्यादिः, ङयां शाटी पुंस्त्रीलिङ्गः, स्वार्थे के तु शाटकः क्लीवलिङ्गः || १ || चोटयल्पीभवति चोटः, ड्यां चाटी, पुंस्त्रीलिङ्गः ॥ २ ॥ अथ नीशारो हिमवातापहांशुके । निशीर्यते शीताद्युपद्रवोऽनेन नीशारः "श्रो वायुवर्ण” ॥ ५ । ३ । २० ॥ इति घञ्, यल्लक्ष्यम् – “गौरिवाकृतनीशारः प्रायेण शिशिरे कृशः" इति ॥ १ ॥ शेषश्चात्र - अथ हिमबातापहांशुके द्विखण्डको वरकश्च ॥ कच्छा कच्छाटिका कक्षा परिधानाऽपराञ्चले ॥ ३३९॥ कच्यते बध्यते कच्छा "तुदिमदि - " ॥ ( उणा - १२४) ॥ इति छक् ॥ १ ॥ कच्छैव कच्छाटी ग्रामटीवधूटीवत् के कच्छाटिका "कच्छाटी पुस्त्रियाः" इति व्याडिः ॥ २ ॥ कषति गुह्यं कक्षा " मावा - " ॥ ( उणा - ५६४ ) ॥ इति सः, परिधानस्य पश्चादश्चले ॥ ३ ॥ ३३९ ॥ कौपीनं कक्षापटस्तु " कक्षायाः पटः कक्षापटः कक्षापुट इत्येके ॥ १ ॥ कूपप्रवेशनमर्हति कौपीनम्, अयं पायूपस्थावरणे चीवरखण्डे रूढः " शालीन कौपीन- ' ॥ ६ ॥ ४ । १८५॥ इति निपात्यते ॥ २ ॥ समौ नक्तककर्पटौ । " नह्यते शिरसि नक्तकः " कीचक- ॥ ( उणा - ३३ ) ॥ इत्यके निपात्यते नक्तं भव इति वा, द्रवद्रव्यं येन पूयते तत्र रूढोऽयं तत्तुल्येऽपि वस्त्रे प्रतीतां वर्तते ॥ १ ॥ कल्पते कर्पटः, पुंक्लीबलिङ्गः “ दिव्यवि- ” ॥ ( उणा - १४२ ) इत्यटः ॥ २ ॥ निचोलः प्रच्छदपटो निचुलश्चोत्तरच्छदः ॥ ३४० ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy