SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ ३ मर्त्यकाण्डः । २७१ छेदः क्षालनं भोगश्चेत्याहतं तद्रहितमनाहतं नवं वस्त्रम् ॥ १ ॥ तन्त्रात्पटवानोपकरणादचिरोत्तीर्ण तन्त्रकम् “तन्त्रादचिरोद्धृते” || ७|१|१८३ || इति कः ॥ २ प्रोयतेऽस्यामिति प्रवाणी तन्तुवायशलाका, सा निर्गताऽस्माद् निष्प्रवाणिः, “निष्प्रवाणिः” ॥ ७।३।१८१ ॥ इति कजभावे निपात्यते । एते वाच्यलिङ्गाः ॥ ३ ॥ प्रच्छादनं प्रावरणं संव्यानं चोत्तरीयकम् ॥ ३३५ ॥ प्रच्छाद्यतेऽनेन प्रच्छादनम् ॥ १ ॥ प्रात्रियतेऽनेन प्रावरणम् ॥ २ ॥ संवी - यतेऽनेन संव्यानम् ॥ ३ ॥ उत्तरे ऊर्ध्वे भवमुत्तरीयं गहादित्वादीयः, के उत्तरीयकम् ॥ ४॥ ३३५ ॥ बैंकक्षे प्रायारोत्तरासङ्गौ बृहतिकाऽपि च । विकक्षायां भवं वैकक्षं तिर्यग् वक्षसि विक्षिप्तं वासस्तत्र ॥ १ ॥ प्राव्रियतेStar प्रावारः " गो वस्त्रे " || ५|३|५२ ॥ इति घञ् ॥ २ ॥ उत्तरे ऊर्ध्वाङ्ग आसज्यते उत्तरासङ्गः ॥३॥ बृहत्येव बृहतिका " तनुपुत्राणुबृहती- ” ॥७|३|२३॥ इति स्वार्थे कः ॥ ४ ॥ वराशिः स्थूलशाटः स्यात् अवाश्नुतेऽङ्गं “अशो रश्श्रादिः ॥ ( उणा - ६८८ ) ॥ इति इप्रत्यये, आदेश्व रादेशे “वाऽवाऽयोस्तनि - " ॥ ३२॥ १५६ ॥ इत्यत्र धातुनियमाभावमतेनाऽवस्य वादेशे वराशिः, वृणोत्यङ्गमिति इप्रत्यये पृषोदरादित्वाद्वा पुंलिङ्गस्तालव्यान्तश्च ॥१॥ स्थूलश्चासौ शाटव स्थूलशाटः ॥ २ ॥ परिधानं त्वधशुकम् ||३३६॥ अन्तरीयं निवसनमुपसंख्यानमित्यपि । परिधीयते परिधानमधोवसनम् ॥ १ ॥ २ ॥ ३३६ ॥ अन्तरे कायस्य भवमन्तरीयं गहादित्वादयः || ३ || निवस्यतेऽनेन निवसनम् ॥४॥ उपसंवीयतेऽनेन कटिरूपसंव्यानम् ॥५॥ तद्ग्रन्थिरुच्चयो नीवी तस्य परिधानस्य ग्रन्थिराग्रन्थनं तद्ग्रन्थिः, उच्चीयते बध्यतेऽनेनोश्वयः ॥ १ ॥ नोयते जघन्यवस्त्रे नीविः “कॄशृस - " ॥ (उणा - २९८ ) ॥ इति डिद्विः, ङयां नीवी ॥२॥ वरस्यरुकांशुकम् ||३३७॥ चण्डातकं चलनकः वरस्त्रिया ऊर्वोरर्धाच्छादकमंशुकं वरस्त्र्यधरुकांशुकम् ॥ ३३७॥ चण्डते का.मोऽनेन चण्डातकं, मुंक्लीबलिङ्गः “ चण्डिभलिभ्या - " ॥ ( उणा - ८२ ) ॥ इत्यातकः ॥ १ ॥ चलतीत्येवंशीलश्चलन:, के चलनकः ॥ २ ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy