SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ २७० अभिधानचिन्तामणौ-.. उषत्यश्रियमुष्णीषः, पुंक्लीबलिङ्गः ॥१॥ मूर्धा वेष्टयतेऽनेन मूर्धवेष्टनम् ॥२॥३३१॥ - तत्स्यादुद्गमनीयं यद्धौतयोर्वस्त्रयोयुगम् । उद्गम्यतेऽभिलष्यते उद्गमनीयम् , युगमविवक्षितं तेनैकमपि यद्भागुरिः“धीरैरुगमनीयं तु धौतवस्त्रमुदाहृतम् ” लक्ष्यं च- “ गृहीतवत्युद्गमनीयवस्ने" इति ॥ १॥ त्वक्फलकृमिरोमभ्यः संभवात् तच्चतुर्विधम् ॥ ३३२ ॥ . क्षौमकार्पासकौशेयराङ्कवादिविभेदतः ।। तद् वस्त्रं त्वगादिभ्य उपादानकारणेभ्यः संभवात् क्षौमादिभेदेन चतुर्धा त्वग् वल्कलं तज्जं क्षौमादि ॥१॥ फलं सस्यं तज्जं कार्पासादि ॥१॥ कृमिः कीटस्तजं कौशेयादि ॥१॥ रोम तनूरहं तज्जं राकवादि ॥ १॥ अथैतानि क्रमेणाह क्षौमं दुकूलं दुगूलं स्यात् क्षुमाऽतसी तस्या विकारः क्षौमं, पुंश्लीबलिङ्गः ॥ १॥ दुनोति शत्रुमनासि दुकूलम् ॥ २ ॥ दुह्यते क्षुमाया आकृष्यते दुगूलम् “ दुकूलकुकूल-" ॥ ( उणा४९१)॥ इत्यूल निपात्यते ॥ ३ ॥ कार्पासं तु बादरम् ॥ ३३३ ॥ कर्पासफलस्य विकारः कार्पासम् ॥ १ ॥ बदरस्य विकारो बादरम् ॥२॥३३३॥ कौशेयं कृमिकोशोत्थं कोशस्य विकारः कौशेयं " कौशेयम् " ॥६॥२॥३९॥ इत्येयजि साधुः, कृमिकोशादुत्तिष्ठते कृमिकोशोत्थम् ॥ १॥ .. ... ..राङ्कवं मृगरोमजम् । ... रहुर्मुगविशेषस्तस्येदम्, विकारो वा राङ्कवम् , मृगरोमभ्यो जातं मृगरोमजम् ॥१॥ कम्बलः पुनरूर्णायुराविकौरभरल्लकाः ॥ ३३४ ॥ काम्यते कम्बलः, पुंस्त्रीलिङ्गः “ शमिकमि-" ( उणा-४९९ ) ॥ इति बलः ॥ १॥ ऊर्णाः सन्त्यत्रोर्णायुः, पुंलिङ्गः " ऊर्णाहं-" ॥ ७।२।१७ ॥ इति युस ॥ २ ॥ अविकस्य उरभ्रस्य च विकार आविकः, औरभ्रः " प्राण्यौषधि-" ॥६॥२॥३१॥ इत्यण् ॥३॥४॥ रमते मनोऽत्रेति “ भिल्लाच्छभल्ल-" ॥(उणा-४६४)॥ इति निपातनाद् रल्लः, के रल्लकः ॥ ५ ॥ ३३४ ॥ नवं वासोऽनाहतं स्यात् तन्त्रकं निष्प्रवाणि च ।
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy