SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ १ देवाधिदेवकाण्डः । २७ मोक्षशास्त्राध्ययनं प्रणवजपो वा ॥ ३ ॥ तप्यते तदिति तपश्चान्द्रायणादि ॥ ४ ॥ देवताया वीतरागस्य प्रणिधानमात्मना सर्वतः सम्भेदः ॥ ५॥ करणं पुनरासनम् ॥८२॥ क्रियते मनोऽवश्यमनेन करणम् ॥ १ ॥ आस्यतेऽनेन आसनं पद्मासनादि ॥ २ ॥ ८२ ॥ प्राणायामः प्राणयमः श्वासप्रश्वासरोधनम् । प्राणस्य आयमनं प्राणायामः ॥१॥ प्राणस्य यमनं प्राणयमः ॥२॥ सत्यासने बाह्यस्य वायोराचमनं श्वासः, कोष्ठ्यस्य वायोनिःश्वसनं प्रश्वासः, तयो रोधनं गति च्छेदः ॥ प्रत्याहारस्त्विन्द्रियाणां विषयेभ्यः समाहृतिः ॥८॥ . प्रतीपमाहरणं विषयेभ्यः इन्द्रियाणां प्रत्याहारः ॥ १ ॥ ८३ ॥ धारणा तु कचिद्धयेये चित्तस्य स्थिरबन्धनम् । धारणं धारणा क्वचिदिति देवतादौ ध्यातव्ये चित्तस्य स्थिरो बन्धः स्थैर्यमिति यावत् ॥ ध्यानं तु विषये तस्मिन्नेकप्रत्ययसन्ततिः ॥८४॥ ध्यायते ध्यानं विषये तस्मिन्निति देवतादौ ध्येये एका प्रत्ययान्तरेणापरामृष्टा प्रत्ययस्य ध्येयालम्बनस्य सन्तति: सदृश: प्रवाह इति ॥ ८४ ॥ समाधिस्तु तदेवार्थमात्राभासनरूपकम् । । सम्यगाधीयते समाधिः तदेव ध्यानमेवार्थमात्राभासनरूपं ध्येयाकारनिर्भासात्मकं ध्येयखभावावेशात् ॥ उपसंहारमाह• एवं योगो यमाद्यङ्गैरष्टभिः सम्मतोऽष्टधा ॥८५॥ स्पष्टम् ॥ ८५॥ श्वःश्रेयसं शुभशिवे कल्याणं श्वोवसीयसं श्रेयः । क्षेमं भावुकभविककुशलमङ्गलभद्रमद्रशस्तानि ॥८६॥ , एकम् । २ एकम् । ३ एकम् ।
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy