SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ __ अभिधानचिन्तामणौ तरन्त्यनेन विद्याम्भोधिमिति तीर्थ गुरुः, समाने तीर्थे वसन्ति सतीर्थ्याः “सतीर्थ्यः॥६।४।७८॥ इति यान्तो निपात्यते ॥ १ ॥ एकः समानो गुरुरेषामेकगुरवः ॥२॥ 'विवेकः पृथगात्मता ॥७९॥ विवेचनं हेयोपादेयज्ञानं विवेकः । अविवेकात् पृथक् भिन्न आत्मा पृथगात्मा तद्भावः पृथगात्मता ॥ ७९ ॥ एकब्रह्मव्रताचारा मिथः सब्रह्मचारिणः। तुल्यागमास्तुल्यव्रतास्तुल्याचाराश्च अन्योन्यं समाने ब्रह्मण्यागमे गुरुकुले वा व्रतं चरन्तीत्येवंशीलाः सब्रह्मचारिणः ; समाना ब्रह्मचारिण इति वा “सब्रह्मचारी" ॥३।२।१५०॥ इति निपात्यते ॥ स्यात्पारम्पर्यमाम्नायः संप्रदायो गुरुक्रमः ॥८०॥ परम्पराया गुरुशिष्यप्रशिष्यादिसन्तानरूपाया भावः पारम्पर्यम् ॥१॥ आम्नायते आम्नायः ॥२॥ सम्यक् प्रदीयते सम्प्रदायः ॥३॥गुरोः क्रमो गुरुक्रम: ॥४॥८॥ व्रतादानं परिव्रज्या तपस्या नियमस्थितिः __ व्रतं शास्त्रविहितो नियमस्तस्यादानं व्रतादानम् ॥१॥ परिव्रजनं परिव्रज्या । प्रवज्यापि । “आस्यटिव्रज्यजः क्यप् "॥५:३९७॥ इति क्यप् ॥२॥ तपसः करणं तपस्या "तपसः क्यन् ॥३॥४॥३६॥ इति क्यनि “शंसिप्रत्ययात्' ॥५।३।१०५॥ इति अः ॥३॥ नियमे व्रतेऽवस्थानं नियमस्थितिः ॥ ४॥ ___अहिंसासूनृतास्तेयब्रह्माकिञ्चनता यमाः ।।८१॥ हिंसा प्राणव्यपरोपणं तदभावोऽहिंसा ॥ १॥ सूनृतं प्रियं सत्यं च वचः ॥२॥ तेयमदत्तादानं तदभावोऽस्तेयम् ॥३॥ ब्रह्मेति ब्रह्मचर्य मैथुनत्यागः॥४॥ अकिञ्चनता परिग्रहत्यागः ॥५॥ यम्यते चित्तमेभिरिति यमाः ॥ ८१ ॥ नियमाः शौचसन्तोषौ स्वाध्यायतपसी अपि । देवताप्रणिधानं च नियम्यते चित्तमेभिर्नियमाः । शुर्भावः कर्म वा शौचं कायमनसोः शुद्धिः . ॥१॥ सन्तोष: सन्निहितसाधनादधिकस्याऽनुपादित्सा ॥२॥ वकीयमध्ययनं स्वाध्यायो १ एकम् । २ एकम् । ३ एकम् । ४ एकम् । ५ शौचं सन्तोषः इत्यपि पाठः।
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy