________________
२६८
अभिधानचिन्तामणौ-..
ऊर्मिप्रतिकृतिरूमिका ॥१॥ अङ्गुल्यां भवमङ्गुलीयं “ जिह्वामूलाङ्गु-" ॥ .. ६।३ । १२७ ॥ इतीयः, केऽङ्गुलीयकम् । 'अङ्गुच्छलं' देश्याम् ॥ २ ॥ ३२७ ॥
सा साक्षराऽङ्गुलिमुद्रा सा ऊर्मिकाऽक्षराङ्किता अमुल्यां मोदते, अङ्गुली मुद्रयति वाऽङ्गुलिमुद्रा ॥१॥
कटिसूत्रं तु मेखला ।
कलापो रसना सारसनं काञ्ची च सप्तकी ॥ ३२८ ।। कटेः सूत्रं कटिसूत्रम् ॥१॥ मीयते मेखला “मिगः खलश्चैव"(उणा-४९७)। इति खलः, मुहुः स्खलतीति वा, मेहनस्य खं मेहनखं तस्य माला वा पृषोदरादित्वात् ॥२॥ कल्पते कलापः “कलेरापः" ॥ (उणा-३०८) ॥३॥ अश्नुते कटिं रसना, स्त्रीक्लीबलिङ्गः "अशो रश्चादौ" ॥ (उणा-२७०)॥ इत्यनः ॥ ४ ॥ सारं सनोति सारसनम् ॥५॥ कञ्चते दीप्यते, कञ्च्यते बध्यते वा काञ्चिः “कमिवमि-" ॥ (उणा६१८) ॥ इति पौ साधुः, ङ्यां काञ्ची ॥६॥ सपति समवैति सप्तकी “कीचक-" ॥ (उणा-३३ )॥ इत्यके निपात्यते , उत्तरत्र 'पुंस्कटिस्था' इतिवचनादत्र स्त्रीकट्यामिति लभ्यते ॥७॥ ३२८ ॥ शेषश्चात्र- मेखला तु लालिनी कटिमालिका ॥ ,
सा शृङ्खलं पुंस्कटिस्था सा मेखला पुंस्कटिस्था शीर्यते शृङ्खलं त्रिलिङ्गः "श्रो नोन्तो ह्रखश्च" ॥ (उणा४९८) ॥ इति खलः, शृङ्गैः खलतीति वा ॥१॥
किङ्कणी क्षुद्रघण्टिका।
कङ्कते याति कटिं किङ्कणिः “कङ्केरिच्चाऽस्य वा ॥ (उणा-६३९) ॥ इत्यणिः, टयां किङ्कणी ,किञ्चित्क्वणतीति वा । 'किङ्किणीयेके ॥ १॥ क्षुद्रा अल्पा घण्टिका घुर्घरकाख्या ॥२॥ शेषश्चात्र- अथ किङ्कण्यां घर्घरी विद्या विद्यामणिस्तथा ॥
नूपुरं तु तुलाकोटिः पादतः कटकाङ्गदे ॥ ३२९ ॥
मञ्जीरं हंसकं शिञ्जिनी - नुवति स्तौतीव नूपुरं, पुंक्लीबलिङ्गः "श्वशुर-" ॥ (उणा-४२६) ॥ इत्युरे निपात्यते ॥१॥ तुलाकृतेर्जङ्घायाः कोटिरिव तुलाकोटिः, पुंक्लीबलिङ्गः॥२॥ पादशब्दात् कटकाङ्गदे पादस्य कटकं पादकटकं, पुंक्तीबलिङ्गः ॥३॥ पादोऽङ्गदमिव पादाङ्गदम्॥४॥ ॥३२९॥ मजिः सौत्रो मजति मञ्जीरं "कृशृपृ. ॥ (उणा-४१८) ॥ इतीरः' मन्जु मधुरमीरयति वा पृषोदरादित्वात् , हंसवत् कायति हंसकं,'क्लीबलिङ्गावेतौ ॥५॥ ॥६॥ शिलेऽव्यक्तं शब्दं करोति शिञ्जिनी, ग्रहादित्वाद् णिन्॥७॥