SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ ३ मर्यकाण्डः। २६५ पत्रपाशानो समूहः पत्रपाश्या "पाशादेश्च ल्यः" ॥६।२।२५॥१॥ ललाटे भवा ललाटिका ललाटमण्डनं “कर्णललाटात् कल्” ॥ ६ । ३ । १४१ । २॥ वालपाश्या पारितथ्या वालपाशे साधुर्वालपाश्या वालबन्धनाथै मुक्तावलयः, वालेषु पाशसमूहो वा फुल्ललतिकादि ॥ १॥ परितस्तथाभवा पारितथ्या “परिमुखादेरव्ययीभावात् " ॥ ६ । ३ । १३६ ॥ इति ज्यः, पायतिथ्या वा ॥ २ ॥ .. कर्णिका कर्णभूषणम् ॥ ३१९ ॥ कर्णे भवा कर्णिका “कर्णललाटात् कल्" ॥ ६ । ३ । १४१ । १ । ३१९ ॥ ताडङ्कस्तु ताडपत्रं कुण्डलं कर्णवेष्टकः । ताज्यते कर्णोऽनेन ताडङ्कः “रालापाका-'' ॥ (उणा-६३) ॥ इत्युपलक्षणादकः ॥१॥ ताडपत्रनिर्मितत्वात् ताडपत्रं, ताडपत्रवत् सौवर्णोऽपि ॥ २ ॥ कुण्डते दहत्यलक्ष्मी कुण्डलं, पुंक्लीबलिङ्गः “मृदिकन्दि-" ॥ ( उणा-४६५) ॥ इत्यल: ॥ ३ ॥ कर्ण वेष्टते कर्णवेष्टः के कर्णवेष्टकः ; द्वौ द्वौ भिन्नार्थावित्येके ॥ ४ ॥ शेषश्चात्र- अथ कुण्डले कर्णादर्शः ॥ उत्क्षिप्तिका तु कर्णान्दुः । उत्क्षिप्यते स्मोत्क्षिप्तिका ॥१॥ कर्णयोरन्द्यते कर्णान्दुः “ भृमृतृ-"॥ (उणा: ७१६) ॥ इति बहुवचनादुः स्त्रीलिङ्गः, वैजयन्तीकारस्तु-“कर्णान्दूः” इत्यूकारान्तमाह ॥ २ ॥ बालिका कर्णपृष्टगा ॥ ३२० ॥ बलते बालिका ॥१॥३२०॥ । अवेयकं कण्ठभूषा ग्रीवायां जातं अवेयकं “कुलकुक्षि-" ॥६॥३॥१२॥ इत्येयकञ् ॥१॥ ___ लम्बमाना ललन्तिका । लम्बमाना कण्ठभूषा लडत्यलङ्करोति ललन्ती, के ललन्तिका ॥ १॥ प्रालम्बिका कृता हेम्ना हेम्ना कृता कण्ठभूषा प्रालम्बते प्रालम्बिका ॥१॥ उरःसूत्रिको तु मौक्तिकैः ॥ ३२१ ॥ मौक्तिकैः कृता कण्ठभूषा, उरसि सूत्रमस्या उरःसूत्रिका ॥१॥३२१॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy