SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ २६४ अभिधानचिन्तामणौ___तिर्यग् वक्षसि वैकक्षं यज्ञोपवीतन्यायेन तिर्यग् वक्षसि विक्षिप्तं दाम विकक्षायां भवं वैकक्षम् ॥१॥ प्रालम्बमृजुलम्बि यत् ॥ ३१६ ॥ कण्ठादुभयतो वक्षसि लम्बमानं पुष्पदाम प्रालम्बते प्रालम्बम् ॥१॥३१६॥ सन्दर्भो रचना गुम्फः श्रन्थनं ग्रन्थनं समाः । सन्दर्भणं सन्दर्भः ॥ १ ॥ रचनं रचना ॥ २ ॥ गुम्फनं गुम्फः ॥ ३ ॥ श्रथ्यते श्रन्थनम् ॥ ४ ॥ प्रथ्यते प्रन्थनम् ॥ ५ ॥ স্বান্ত रचनायां परिस्यन्दः प्रतियत्नः ॥ ।'' तिलके तमालपत्रचित्रपुण्ड्रविशेषकाः ॥ ३१७ ॥ तिलति तिलकं, पुंक्लीबलिङ्गः “ध्रुधून्दि-" ॥ (उणा-२९) ॥ इति किदकः, तिलाकृतिवा तत्र ॥१॥ तमालपत्राकृतिः कस्तूर्यादिना ललाटे तमालपत्रम् ॥ २ ॥ चित्र्यत चित्रं, चित्रकमपि ॥ ३ ॥ पुण्यति पुण्ड्यते वा पुण्डः "खुरक्षुर-" ॥ (उणा-३९६)॥ इति रे निपात्यते ॥ ४ ॥ विशिनष्टि ललाटं विशेषकः, पुंक्लीबलिङ्गः, इत्थं तिलकभेदाः, एतेषां पर्यायत्वं त्वदूरविप्रकर्षात् ॥५॥३१॥ आपीडशेखरोत्तंसाऽवतंसाः शिरसः स्रजि । __ आपीड्यते शिरस्यापीडः ॥ १॥ शाखति व्याप्नोति शिरः शेखरः "शाखेरिदेतौ चातः " ॥ (उणा-४०० ) ॥ इत्यरः ॥ २ ॥ उत्तस्यतेऽनेनोत्तंसः, अवतंस्यतेऽनेनाऽवतंसः' अवतनोति शोभामिति वा "व्यवाभ्यां-" ॥ (उणा-५६५) ॥ इति सः “वाऽवाप्योस्तनि." ॥ ३।२। १५६ ॥ इत्यवस्य वादेशे वतंसोऽपि । शेखरादयः पुंक्लीबलिङ्गाः ॥ ३ ॥ ४ ॥ उत्तरौ कर्णपूरेऽपि उत्तरावुत्तंसावतंसौ कर्ण पूरयति कर्णपूरस्तत्र, पुंक्लीबलिङ्गोऽयम् ॥१॥२॥३॥ पत्रलेखा तु पत्रतः ॥ ३१८ ॥ ... भङ्गिवल्लिलताङ्गुल्यः द्राविड-कालिङ्गादिभेदेन पत्राकृतिर्लेखा पत्रलेखा स्त्रीणां कपोलस्तनमण्डलादिषु कस्तारकादिभिः पत्ररचना ॥ १॥ पत्रशब्दाद् भङ्गयादयः- पत्रभङ्गिः ॥२॥ पत्रवल्लिः ॥३॥ पत्रलता ॥४॥ पत्राङ्गुली; एवं पत्रवल्लरी-पत्रमञ्जरीत्यादयोऽपि ॥५॥ पत्रपाश्या ललाटिका।
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy