________________
अभिधानचिन्तामणौ
कालाय भूमौ भवं कालीयं, के कालीयकम् ॥ १ ॥ जापकाद्रिभवत्वाज्जापकं कालानुसार्यमपि ॥२॥३१०॥
२६२
यक्षधूपो बहुरूपः सालवेष्टोऽग्निवल्लभः ।
सर्जमणिः सर्जरसः रालः सर्वरसोऽपि च ॥ ३११ ॥
यक्षं धूपयति यक्षधूपः ॥ १ ॥ नानाकृतिगन्धत्वाद् बहुरूपः ॥ २ ॥ सा - लस्य वेष्टो निर्यासः सालवेष्टः ॥ ३ ॥ अग्नेर्वल्लभोऽग्निवल्लभः ॥ ४ ॥ सर्जस्य तरोर्म - णिरिव सर्जमणिः ॥ ५ ॥ सर्जस्य रसः सर्जरसः ॥ ६ ॥ राति प्रीतिं रालः, पुंक्लीबलिङ्गः “भिल्लाच्छभल-” ॥ ( उणा - ४६४ ) ॥ इति ले साधुः ॥ ७ ॥ सर्वे रसा अत्र सर्वरसः ॥८॥३११॥
धूपो वृकात् कृत्रिमाच्च तुरुष्कः सिल्हपिण्डकौ ।
वृकशब्दात् कृत्रिमशब्दाच्च परो धूपः, वृकान् धूपयति वृकधूपः, कृत्रिम - श्वासौ धूपश्च कृत्रिमधूपः ॥ १ ॥२॥ तुरुष्को यवनदेशजः, पुंक्ली बलिङ्ग: ; यावनोऽपि ॥३॥ सिलत् उच्छे, सिलति सिल्हः, दन्त्यादिः सिलं जहातीति वा ॥ ४ ॥ पिण्डयति पिण्डकः, द्रव्यान्तरैः सह पिण्डितः खरूपाद् न च्यवते ॥ ५ ॥
पायसस्तु वृक्षधूपः श्रीवासः सरलद्रवः ॥ ३१२ ॥
पयसो द्रुमक्षीरस्यायं पायसः, पयसो विकारः स्रुतिरित्यन्वये "पयोद्रोर्यः " ॥६।२।३५॥ इति यः प्राप्नोति ॥ १ ॥ वृक्षस्य धूपो वृक्षधूपः ॥ २ ॥ श्रियो वासः श्रीवासः ॥ ३ ॥ सरलस्य देवदारुभेदस्य द्रवो निर्यासः सरलद्रवः ॥ ४ ॥ ३१२ ॥
शेषश्चात्र
वृक्षधूपे तु श्रीवेष्टो दधिक्षीरघृताह्वयः ॥
स्थानात् स्थानान्तरं गच्छन् धूपो गन्धपिशाचिका ।
धूप्यतेऽनेनेति धूपः गन्धद्रव्ययोगविशेषः, गन्धेन पिशाचिकेवाऽस्खलितादृश्यगतित्वाद् गन्धपिशाचिका ॥ १ ॥
स्थासकस्तु हस्तबिम्बं
तिष्ठत्यङ्गे स्थासकः “कीचकपेचक- " ॥ ( उणा-३ ॥ १ ॥ हस्तस्य बिम्बं हस्तबिम्बं कुङ्कुमादिरचितम् ॥ २ ॥
- ३३ ) ॥ इत्यके निपात्यते
अलङ्कारस्तु भूषणम् ॥ ३१३ ॥ परिष्काराssभरणे च
अलं क्रियतेऽनेनेत्यलङ्कारः कटक केयूरादिः ॥ १ ॥ भूष्यतेऽनेन भूषणं पुंक्ली