SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ २५८ अभिधानचिन्तामणौवेवेष्ट्यङ्गं वेषो वस्त्राऽलङ्कारमाल्यप्रसाधनैरङ्गशोभा, पुंकीबलिङ्गः । “विशति चेतः” इत्यन्ये तालव्यं शमाहुः ॥ १ ॥ नेत्रयोः पथ्यं नेपथ्यं, पृषोदरादित्वात् ॥ २॥ आकल्पते आकल्पः ॥३॥ __ परिकर्माऽङ्गसंस्क्रिया। मलपरिमार्जनार्थं क्रिया परिकर्म नानोद्वर्तनादि ॥१॥ ___उद्वर्तनमुत्सादनं उद्वय॑तेऽनेनोद्वर्तनम् ॥१॥उत्साद्यतेऽनेनोत्सादनम् ‘उच्छादनम्' इत्यन्ये ॥२॥ __ अङ्गरागो विलेपनम् ॥ २९९ ॥ अङ्गं रज्यतेऽनेनाङ्गरागः ॥१॥ विलिप्यतेऽनेन विलेपनम् ॥२॥२९९॥ चर्चिक्यं समालभनं चर्चा स्यात् चर्चिकायां चर्चने साधु चर्चिक्यं, चन्दनादिना पुण्ड्रादिक्षेपणम् ॥१॥ लाभण् प्रेरण इत्यत्र लाभणस्थाने लभण् इति सभ्याः पठन्ति, तस्य समालभ्यतेऽनेन समालभनम् ॥२॥ चर्च्यतेऽनया चर्चा “भीषिभूषि." ॥५।३।१०९॥ इत्यङ् ॥ ३ ॥ मण्डनं पुनः । प्रसाधनं प्रतिकर्म मण्ज्यतेऽनेन मण्डनं तिलकपत्रभङ्गादि ॥१॥ प्रसाध्यतेऽनेन प्रसाधनम् ॥२॥ प्रत्यङ्गं कर्म प्रतिकर्म ॥३॥ मार्टिः स्याद् मार्जना मृजा ॥ ३०० ।। माय॑ते मार्टिः शुद्धिमात्रं वादित्वात् क्तिः ॥ १ ॥मार्जनं मार्जना ॥ २ ॥ भिदाद्यङि मृजा ॥ ३ ॥ ३० ॥ वासयोगस्तु चूर्णं स्यात् वास्यते सुगन्धीक्रियते येन युज्यमानेन मिश्रेण स वासयोगः ॥१॥ चूर्यते चूर्ण पटवासादिक्षोदः, पुंक्लीबलिङ्गः ॥२॥ पिष्टातः पटवासकः । पिष्टेन कुङ्कुमचूर्णादिनाऽतति पिष्टातः ॥१॥ पटो वास्यतेऽनेन पटवासः, के. पटवासकः ॥२॥ ___ गन्धमाल्यादिना यस्तु संस्कारः सोऽधिवासनम् ॥३०१॥ संस्कारस्तैलादिना गुणाधानम् , आदिशब्दाद् धूपादिभिरधिवास्यतेऽधिवासनम् ॥ १॥३०१ ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy