SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ . ३ मर्यकाण्डः। २५७ काण तु पिञ्जूषः कर्णयोर्जातं मलं कार्णं पिञ्ज्यते पिञ्जूषः “कोरदूषाटरूष-" ॥ (उणा-) ५६१) ॥ इत्यूषे निपात्यते ॥१॥ शिवाणो घाणसम्भवम् ॥ २९६ ॥ शिङ्घयते शिवाणः "बहुलम्" ॥५।१।२॥ इत्याणः “धालूशिद्धि" ॥ (उणा७०) ॥ इत्याणके, शिवाणकोऽपि ॥१॥२९६॥ . सृणीका स्यन्दिनी लालाऽऽस्यासवः कफकूचिका । - सरति मुखात् सृणीका "सृणीकास्तीक-"॥ (उणा-५०) ॥ इतीके निपात्यते 'सृणिका' इत्यमरः । स्यन्दतेऽवश्यं स्यन्दिनी ॥२॥ लाति लाला, "भिल्लाच्छभल्ल-"॥ (उणा-४६४) ॥ इति ले निपात्यते, लालयते वा ॥ ३ ॥ आस्यस्यासव आस्यासवः ॥ ४ ॥ कफस्य कूचिकेव कफकूचिका ॥ ५॥ मूत्रं वस्तिमलं मेहः प्रस्रावो नृजलं सवः ॥ २९७ ॥ मूत्र्यते मूत्रं, मूयते वा "सुमूख-" (उणा-४४९) ॥ इति कित् त्रट् ॥१॥ वस्तेर्मलं वस्तिमलम् ॥२॥ मेहत्यनेन मेहः ॥३॥ प्रत्यते प्रस्रावः “प्रात् सुद्रुस्तोः" ॥५।३।६७॥ इति घञ् ॥४॥ नुर्नरस्य जलं नृजलम् ॥५॥ सवणं सवः ॥६॥२९॥ पुष्पिका तु लिङ्गमलं पुष्प्यति पुष्पिका ॥१॥ विड् विष्ठाऽवस्करः शकृत् । गूथं पुरीषं शमलोच्चारौ वर्चस्कवर्चसी ॥२९८॥ 'विशति पक्वाशये विट् , स्त्रीलिङ्गः, वैजयन्तीकारस्तु- “उच्चारो विड् न ना". इति क्लीबेऽप्याह । अमरस्तु- "विष्ठाविषौ स्त्रियाम्” इति मूर्धन्यं षमाह ॥१॥ विशति विष्ठा "पीविशि-" ॥ (उणा-१६३) ॥ इति कित् ठः ॥२॥ अव- अधः कीर्यतेऽवस्करः, वर्चस्कादित्वात् साधुः ॥ ३ ॥ शक्नोत्यनेन शकृत् , क्लीबलिङ्गः "शक ऋत्" ॥ ( उणा-८९१) ॥॥ ४ ॥ गूयत उत्सृज्यते गूथं, पुंक्लीबलिङ्गः - "पथयूथ-". । (उणा-२३१) ॥ इति थे निपात्यते ॥ ५॥ पृणात्यन्त्रं पुरीषं "ऋजिशपृभ्यः कित्' ॥ (उणा-५५४) इतीषः ॥ ६ ॥ शाम्यति शमलं "शमेव च वा" ॥ (उणा-४७०) ॥ इयलः ॥ ७ ॥ उच्चार्यते प्रेर्यते उच्चारः ॥ ८ ॥ वर्च एव वर्चस्कं, पुंक्तीवलिङ्गः ॥ ९ ॥ वर्चतेऽनेन वर्चः “अस्" ॥ (उगा-९५२) ॥ इत्यस्' अशुच्यपि ॥१०॥२९८॥ वेषो नेपथ्यमाकल्पः
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy