SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ .२५६ अभिधानचिन्तामणौ इत्युक्ताः । वाचस्पतिरपि "तत्राजिनं मृगयोनिगाश्च प्रिय कादयः । मृगप्रकरणे तेऽथ प्रोक्ता अजिनयोनयः " ॥ १॥ इत्याह ॥ २९४ ॥ वनसा तु नसा स्नायुः वस्ते छादयति कायं वस्नसा “फनस-"॥ (उणा-५७३) ॥ इत्यसे निपात्यते ॥॥ स्नस्यति निरस्यति नसा, स्त्रीलिङ्गः ॥२॥ स्नायति वेष्टयत्यस्थीनीति स्नायुः "कृवापा-" ॥ (उणा-१) ॥ इत्युण , स्त्रीलिङ्गोऽयं; क्लीबेऽपि वाचस्पतिर्यदाह"अथ स्नायुनसा तन्त्रीः” इति ।। शेषश्चात्र- अथ नसा । तन्त्रानखारुनावानः सन्धिबन्धनमित्यपि ॥ नाड्यो धमनयः सिराः । नडस्यवतौ नाड्यः शौषिर्यात् , नडेः सौत्रस्य वा घञ्; नडिरपि ॥१॥धम्यन्ते धमनयः स्त्रीलिङ्गः ॥२॥ सिन्वन्त्यस्थीनि सिराः “ऋज्यजि-" ॥ (उणा-३८८)॥ इति किदरः ॥३॥ कण्डरा तु महास्नायुः कण्डते माद्यति कण्डरा "जठर-" ॥ (उणा-४०३) ॥ इत्यरे निपात्यते ॥१॥ महती स्नायुर्महास्नायुः "नायुसंघातः” इति वैद्याः ॥२॥ मलं कि मलते धारयति कायं मलं, मृज्यते वा “मृज़िखन्या-" ॥ (उणा-४७२) । इति डिदलः ॥१।। केटति किटं, पुंक्लीबलिङ्गावेतौ ॥२॥ तदक्षिजम् ॥ २९५ ॥ दूषीका दूषिका तद् मलमक्षिसंभवम् ॥२९५॥ दूषयति चक्षुर्दूषीका "स्यमिकषि-॥ (उणा४६) ॥ इतीकः ॥१॥ “क्रीकल्य-" ॥ (उणा ३८) ॥ इतीके दूषिका ॥२॥ जैहं कुलुकं जिह्वायां जातं मलं जैह्व, कोलति संस्त्यायति कुलुकं "कञ्चुकांशुक-'' (उणा५७) ॥ इत्युके निपात्यते ॥१॥ पिप्पिका पुनः । दन्त्यं प्यायते पिप्पिका "कुशिक- " ॥ (उणा-४५) ॥ इतीके निपात्यते ॥१॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy