SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ २५४ अभिधानचिन्तामणौ-.. मेदोजं कीकसं सारः अस्यते अस्थि, क्लीबलिङ्गः “वीसजि-" ॥ (उणा-६६९) इति थिक् ॥१॥ कुले शरीरे साधु कुल्यं, पुंक्लीबलिङ्गः ॥२॥ भरद्वाजस्येदं भारद्वाजम् ॥३॥ मेदसस्तेजो मेदस्तेजः ॥ ४ ॥ मजानं करोति मजकृत् ॥५॥२८९॥ मांसस्य पित्तं मांसपित्तम् ॥६॥ शुनो दयितं श्वदयितम् ॥७॥ करोति मज्जानं कर्करः “किशवृभ्यः-" (उणा-४३५) ॥ इति बहुवचनात् करः ॥ ८ ॥ देहं धारयति देहधारकम् ॥ ९ ॥ मेदसो जातं मेदोजम् ॥ १० ॥ कीति कसति कीकसं, ककन्तेऽत्र श्वान इति वा "फनस-" ॥ ( उणा-५७३ ) ॥ इत्यसे निपात्यते ॥ ११॥ सरति कालान्तरमिति सारः, हडं देश्यां, संस्कृतेऽपि, यद्वैजयन्ती- "अथास्थि कीकसं हहम्" इति ॥१२॥ करोटिः शिरसोऽस्थनि ॥ २९० ॥ करोठ्यते करोटिः, स्त्रीलिङ्गः “ खरेभ्य इ:" ॥ ( उणा-६०६ ) ड्या करोटी ॥ १॥ २९० ॥ कपालकर्परौ तुल्यौ कपिः सौत्रः, कप्यते कपालं, पुंक्तीबलिङ्गः "ऋकृमृ-"॥ (उणा-४७५) ॥ इत्यालः, कं पालयति वा तच्च मूर्भोऽधोस्थि, घटादिखण्डेऽप्युपचारात् ; शकलमपि॥१॥ कल्पते कापालिकानां कर्परः "जठर-" ॥ (उणा-४०३) ॥ इत्यरे निपात्यते ॥२॥ पृष्ठस्याऽस्थिन कशेरुका। कस्यते कशेरु, क्लीबीलङ्गः "शिग्रुगे-" ॥ (उणा-८११) ॥ इति साधुः, स्त्रियामपि वैजयन्ती यदाह- "पृष्ठस्यास्थि कशेर्वना" इति, के कशेरुका स्त्रीक्लीबलिङ्गः; 'कशारुका' इति मुनिः ॥ १॥ शाखाऽस्थनि स्यान्नलकं नलति नलकम् ॥१॥ पार्थास्भि वकिपशुके ॥२९१॥ वङ्कते वक्रीभवति वद्भिः, स्त्रीलिङ्गः "तङ्किवय-" ॥ (उणा-६९२)॥ इति रिः॥ १ ॥ पूर्यते मांसादिना पशुः "प्रः शुः" ॥ (उणा-८२५) ॥ इति शुः, के पशुका ॥२॥२९१॥ शरीरास्थि करङ्कः स्यात् कंकालमस्थिपञ्जरः । कीर्यते श्वादिभिरिति करङ्कः "किरोऽङ्को रो लश्च वा" ॥ (उणा-६२) ॥१॥ क्रस्यते कंकालं, पुंक्तीबलिङ्गः “चात्वालकङ्काल-" ॥ (उणा-७४८) ॥१॥ इत्यले निपात्यते कंकान् अलति, कं कलयति वा ॥२॥३॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy