SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ ३ मयंकाण्डः । २५३ मेषधात्र- मांसे तूघः समारटम् ॥ लेपनं च ॥ पेश्यस्तु तल्लताः । पिंशन्ति पेशयः "किलिपिलि-" ॥ (उणा-६०८)॥ इति इ., ड्या पेश्यः, तस्य मांसस्य लतास्तल्लताः ॥१॥ बुक्का हृद् हृदयं वृक्का सुरसं च तदग्रिमम् ॥ २८७ ॥ क्यते स्वादुत्वाद् मृग्यते बुक्का “उक्षितक्ष्य-''॥ (उणा-९००) ॥ इत्यनन्तः पुंस्ययम् "क्तेटो-" ॥५॥३।१०६॥ इत्यप्रत्यये तु बुक्का स्त्रियामाबन्तः, पुंलिङ्ग इति गौडः। भागुरिस्तु- "अग्रमांसं भवेद् बुक्कम्" इति क्लीबमाह ॥ १॥ ड्रियते हृद् हृदयम् ॥२॥३॥ वृज्यते वृक्का "निष्कतुरुष्क-" ॥ (उणा-२६)॥ इति के निपात्यते, स्त्रीलिङ्गोऽयम् , यद्गौडः- "स्त्रियां वृक्का बुक्कः सुरसमद्वयोः" इति। वैजयन्तीकारस्तु"वृक्कौ पार्श्वगतौ गुलौ" इत्याह । सुष्ठुरस्यते सुरसम् तद् मांसमग्रिमं मुख्यम् , “बुक्काऽप्रमांस, हृदयं च जीवाधारपद्मम, इत्यमरः पृथक् पृथगाह ॥४॥२८७॥ शुष्कं वल्लूरमुत्तप्तम् । शुष्कं मांसं वल्ल्यते वल्लूरं त्रिलिङ्गः “मीमसि." ॥ ( उणा- ४२७) । इत्यूरः, वलू लुनातीति वा ॥ १ ॥ उत्तप्यते शोष्यते उत्तप्तम् ॥ २ ॥ पूयदूष्ये पुनः समे । ... पूयते दुर्गन्धीभवति, पूयं पुंक्लीबलिङ्गः ॥ १॥ दूष्यते दूष्यम् ॥ २ ॥ . मेदोऽस्थिकृद् वपा मांसात् तेजो-जे गौतमं वसा ॥ २८८ ॥ मेद्यते निह्यते मेदः, क्लीबलिङ्गः “ अस्" ॥ (उणा-९५२) । इत्यस् अस्थीनि करोत्यस्थिकृत् ॥२॥ उप्यते वपा, भिदाद्यङि साधुः ॥ ३ ॥ मांसशब्दात् तेजोजे मांसतेजः, मांसजम् ॥४॥५॥ गोतमस्यदं गौतमन्न् ॥ ६ ॥ उष्यतेऽङ्गेऽनया भिदाद्यङि वसा "शुद्धस्य मांसस्य यः स्नेहः सा वसा" इति वैद्याः ॥७॥२८॥ . गोदं तु मस्तकस्नेहो मस्तिष्को मस्तुलनकः । __ गवते गोंदं कुमुदादौ निपात्यते, क्लीबलिङ्गोऽयम् , वाचस्पतिस्तु "गोदोऽस्त्री मस्तुलुङ्गकम्" इति पुंस्यप्याह ॥१॥ मस्तकस्य स्नेहो मस्तकस्नेहः ॥ २ ॥ मस्तकमिष्यति गच्छति मस्तिष्कः, पुंक्लीबलिङ्गः ॥ ३ ॥ मस्तकमालिङ्गति मस्तुलुङ्गः पृषोदरादित्वात्, के मस्तुलुङ्गकः ॥ ४ ॥ अस्थि कुल्यं भारद्वाजं मेदस्तेजश्च मज्जकृत् ॥ २८९ ॥ मांसपित्तं श्वदयितं कर्करो देहधारकम् । ३३
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy