SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ ३ मर्त्यकाण्डः । २५१ पृष्यते सिच्यते पाणिः पश्चाद्भागः, स्त्रीलिङ्गः “वृषिहावभ्या वृद्धिश्च " a (उणा-६३६ ) ॥ इति णिः ॥ १ ॥ २८० ॥ पादानं प्रपदं प्रारम्भोऽत्र पदस्य प्रपदम् ॥ १ ॥ क्षिप्रं त्वङ्गुष्ठाऽङ्गुलिमध्यतः । क्षिप्यतेऽनेन क्षिप्रं “ ऋज्यजि." ॥ (उणा १८८ ) ॥ इति किद् रः ॥१॥ कूर्च क्षिप्रस्योपरि किरत्यनेन कूर्चे पुंक्लीबलिङ्गः ॥ १ ॥ अंहिस्कन्धः कूर्चशिरः समे ॥ २८१ ॥ अंहः स्कन्धोंऽह्रिस्कन्धः ॥ १ ॥ कूर्चस्य शिरः कूर्चशिरः ॥ २ ॥ २८१ ॥ तलहृदयं तु तलं मध्ये पादतलस्य तत् । तलस्य हृदयं तलहृदयम् ॥ १॥ तलति गच्छति तलं, तच्च पादतलस्य मध्ये भवतीति ॥ २ ॥ तिलकः कालकः पिप्लुर्जडुलस्तिलकालकः ॥ २८२ ॥ तिलप्रतिकृतिस्तिलकः ॥१॥ काल एव कालकः ॥ २ ॥ अपिप्लवते पिप्लुः, पुंलिङ्गः, पृषोदरादित्वात् ॥ ३ ॥ जलति जडुल: " हृषिवृति-" ॥ (उणा-४८५)॥ इति बहुवचनादुलः ॥४॥ तिल इव कालकस्तिलकालको देहे कृष्णं लक्ष्म॥५॥२८२॥ रसासृग्मांसमेदोऽस्थिमज्जाशुक्राणि धातवः । सप्तैव दश वैकेषां रोमत्वक्स्नायुभिः सह ॥ २८३ ॥ रसादीनि सप्तसंख्यानि, दधति शरीरमिति धातवः " कृसिकमि-" ॥ (उणा-७७३) ॥ इति तुन् , अथवा रोमादिभिस्त्रिभिः सार्धं केषांचिन्मतेन ते दश भवन्ति ॥ २८३ ॥ अथ रसादीन् क्रमेणाहरस आहारतेजोऽग्निसंभवः षड्रसासवः । आत्रेयोऽसृकरो धातुर्धनमूलमहापरः ॥ २८४ ॥ रसयति स्नेहयति रसः ॥ १॥ आहारस्य तेजो निर्यास आहारतेजः ॥ २ ॥ अमेः सम्भवत्यमिसंभवः ॥ ३ ॥ षण्णां मधुरादीनां रसानामासवः षड्रसासवः ॥ ४ ॥ अत्रेरपत्यमिव तज्जन्यत्वादात्रेयः ॥ ५ ॥ असूग रक्तं करोत्यसकरः
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy