SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौ- . . पश्चाद्भागोऽस्य मन्दिरः। अस्य जानोः पश्चाद्भागः, मन्दते गच्छत्यनेन मन्दिरः “मदिमन्दि-" ॥ (उणा-४१२) ॥ इतीरः ॥ १ ॥ कपोली त्वनिमः जानोरप्रिमो भागः, कपेः सौत्रस्य “कटिपटि-" ॥ (उगा-४९३ ) ॥ इत्योले . कपोली ॥१॥ जङ्घा प्रसृता, नलकीन्यपि ॥ २७८ ॥ जायते जङ्घा "स्थार्तिजनिभ्यो घः" ॥ (उणा-१०९) ॥ जङ्घन्यते वा ॥१॥ प्रसरति स्म प्रसृता ॥ २ ॥ नलके विद्यते अस्यां नलकिनी ॥ ३ ॥ २७८ ॥ प्रतिजङ्घा त्वग्रजङ्घा जवां प्रतिगता प्रतिजङ्घा ॥ १ ॥ जङ्घाया अग्रभागोऽग्रजङ्घा ॥ २ ॥ पिण्डिका तु पिचण्डिका। मांसस्य पिण्डोऽस्त्यस्यां पिण्डिका, जङ्घायाः पश्चिमो भागः ॥ १ ॥ पिचण्ड- . प्रतिकृतिः पिचण्डिका ॥२॥ गुल्फस्तु चरणग्रन्थिधुटिको घुण्टको घुटः ॥ २७९ ॥ गलति गुल्फः पादप्रन्थिः पार्श्वनिसृतः "कलिगलेरस्योच्च” ॥ (उणा-३१५)॥ इति फः ॥ १ ॥ घुटति घुटिकः "पापुलि-" ॥ (उणा-४१) ॥ इति बहुवचनात् किदिकः ॥ २॥ घुणत्यनेन घुण्टः, “घटाघाटा-" ॥ ( उणा-१४१)॥ इति टे निपात्यते, के घुण्टकः ॥३॥ घुटति घुटः सर्वे स्त्रीपुंसलिङ्गाः ॥४॥२७९।। चरणः क्रमणः पादः पदोंऽहिश्चलनः क्रमः । चरन्त्यनेन चरणः पुंक्लीबलिङ्गः ॥ १ ॥ कामन्त्यनेन क्रमणः ॥ २॥ पद्यते पादः “पदरुज--" ॥५।३।१६॥ इति घञ्, पादपि, “यद् दुर्ग:-" पादसमानार्थः पादप्यस्ति' ॥ ३ ॥ पद्यतेऽनेन पदः पुंक्लीबलिङ्गः, वर्षादित्वादल् पदपि' यद् व्याडि:- "पत्पादोंह्रिश्चरणोऽस्त्री" इति ॥ ४ ॥ अंहते यात्यनेनाहिः, पुंलिङ्गः "तङ्किवकि." ॥ (उणा-६९२) ॥ इति रिः, अङ्घ्रिरपि ॥ ५ ॥ चलन्त्यनेन चलनः ॥६॥ कामन्त्यनेन क्रमः ॥ ७ ॥ पादमूलं गोहिरं स्यात् गुह्यते गोहिरं “ मदिमन्दि-" ॥ (उणा-४१२) ॥ इति बहुवचनादिरः ॥१॥ पाणिस्तु घुटयोरधः ॥ २८० ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy