SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ ३ मर्त्यकाण्डः । तस्य गुह्यस्याधःसूत्रं सीव्यतेऽनया सीवनी ॥ १ ॥ ... स्यादण्डं पेलमण्डकः ॥ २७५ ॥ मुष्कोऽण्डकोशो वृषणः अणत्यत्राहतः प्राणी अण्ड, क्लीबलिङ्गः' वैजयन्तीकारस्तु- "अस्त्रियो मुष्ककोशाण्डाः" इति पुंस्यप्याहू । “कण्यणि-" ॥ (उणा-१६९)॥ इति डः आण्डोऽपि ॥ १॥ पेलत्यूचं गच्छति भयेन पेलं के पेलकोऽपि पुंसि ॥ २ ॥ अण्डमेवाऽण्डकः । ३ ॥ २७५ ॥ मुष्णाति शुक्रं मुष्कः, पुंक्तीबलिङ्गः “विचिपुषि-” (उणा-२२) इति कित्कः ॥ ४ ॥ अण्डयोः कोशोऽण्डकोशः ॥ ५ ॥ वर्षति शुक्र वृषणः, पुंक्लीबलिङ्गः "कृगपु-" ॥ (उणा-१८८) ॥ इति किदणः ॥ ६॥ ... ___ अपानं पायुर्मुदं च्युतिः । अधोमर्म शकृद्वारं त्रिवलीक-बुली अपि ॥ २७६ ॥ अपाऽनित्यनेन, अपानम् ॥१॥ पिबत्यनेन तैलादि पायुः, पुंलिङ्गः “कृवापा-" (उणा-१) ॥ इत्युण , पाति मलोत्सर्गेणेति वा ॥२॥ गुंत् पुरीषोत्सर्गे, गुवत्यनेन गुदं पुंक्लीबलिङ्गः “गोः कित्" ॥ (उणा-२३९) ॥ इति दः, गोदते वा ॥ ३ ॥ च्यवते मलोऽस्याश्च्युतिः ॥४॥ अधस्ताद् मर्माऽस्याऽधोमर्म ॥५॥ शकृतो द्वारं शकृद्वारम्म ६ ॥ तिस्रो वलयोऽत्र त्रिवलीकम् ॥७॥ बुल्यते जनेषु बुलिः स्त्रीलिङ्गः ॥८॥२७६॥ ... विटपं तु महाबीज्यमन्तरा मुष्कवङ्क्षणम् । ... वेटति विटपमण्डमूलं “भुजिकुति-" ॥ (उणा-३०५) ॥ इति किदपः ॥ १॥ महाबीजे साधु महाबीज्यम् , मुष्कस्य वङ्क्षणस्य च मध्यवर्ति ॥ २॥ .. ऊरुसन्धिर्वङ्क्षणः स्यात् वस्तेरधस्तादूरुसन्धिः, वञ्चति यात्यनेन वक्षणः “चिकण-" ॥ (उणा१९०)॥ इत्यणे निपात्यते ॥१॥ : सक्थ्यरुः .." सजति मांसेन सक्थि क्लीबलिङ्गः “वीसज्य." ॥ (उणा-६६९) ॥ इति कित् थिः॥१॥ इयर्त्यनेनोरुः पुंस्त्रीलिङ्गः “अर्तेरूर् च ॥ (उणा-७३६)॥ इत्युः ॥२॥ तस्य पर्व तु ॥ २७७ ॥ जानुर्नलकीलोऽष्ठीवान् . तस्योरोः पर्व ग्रन्थिः॥२७७॥जायतेऽनेनाकुञ्चनादि जानुः, पंक्लाबलिङ्गः "कृवापा-" ॥ (उणा-१) ॥ इत्युण ॥ १ ॥ नलं कीलयति नलकीलः ॥ २ ॥ अस्थीनि सन्त्यत्राऽष्ठीवान् , पुंक्लीबलिङ्गः “चर्मण्वत्यष्ठीव-'" ॥२।१।९६॥ इति साधुः ॥ ३ ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy