SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ ३. मर्त्यकाण्डः । २४७ " "" मुत्रस्य पुटमाधारो मूत्रपुटम् ॥ १ ॥ वसत्यस्यां मूत्रं चस्तिः, पुंस्त्रीलिङ्गः ॥ ( उणा - ६४६ ) ॥ इति तिः, बस्तयत इति वा " स्वरेभ्य इ: 11 ( उणा - ६०६ ) ॥ २ ॥ मूत्रस्याऽऽशयो मुत्राशयः ॥ ३ ॥ २७० ॥ "प्लुज्ञा मध्योऽवलग्नं विलग्नं मध्यमः मध्यते बध्यते मेखलाद्यत्र मध्यः ॥ १ ॥ अवलगत्यवलग्नम् ॥ २ ॥ विलगति विलग्नमतिकृशत्वात् ॥ ३ ॥ मध्ये जातो मध्यमः, एते पुंक्लीबलिङ्गाः ॥ ४ ॥ अथ कटः कटिः । श्रोणिः कलत्रं कटीरं काञ्चीपदं ककुद्मती ॥ २७१ ॥ " कटत्यावृणोति कटः, पुंक्लीबलिङ्गः ॥ १ ॥ कव्यते अत्रियते कटिः, स्त्रीलिङ्गः दिपाठ- ॥ ( उणा - ६०७ ) ॥ इति इः ॥ २ ॥ श्रूयते किङ्किणीध्वनिरत्र श्रोणिः, पुंस्त्रीलिङ्गः " कावा॥ ( उणा - ६३४ ) ॥ इति णिः, श्रोण्यते संहन्यते इति वा ॥ ३ ॥ कति माद्यत्यनेन कलत्रम् ॥ ४ ॥ कव्यते कटीरं “कृशृपृ-" ॥ ( उणा - ४१८ ) ॥ इतीरः ॥ ५ ॥ काञ्च्याः पदं स्थानं काञ्चीपदम् ॥ ६ ॥ ककुत् पार्श्वनिःसृतशोऽस्त्यस्याः ककुद्मती ॥ ७ ॥ २७१ ॥ नितम्बारोहौ स्वीकट्याः पश्चात् ४८ "3 स्त्रीकटेः पश्चाद्भागः, नितरां तनोति श्रियं नितम्बः " वलिनितनिभ्यां बः ॥ ( उणा - ३१७ ) ॥ १ ॥ आरोहति, आस्यते वाऽऽरोहः ॥ २ ॥ जघनमग्रतः । " स्त्रीकटेर प्रभागः, हन्यते जघनं “ हनेर्घतजघौ च ॥ ( उणा - २७२ ) ॥ इत्यनः ॥ १ ॥ त्रिकं वंशाधः पृष्ठवंशस्याऽधस्तादुर्वोः सन्धौ, त्रिसङ्घट्टस्त्रिकं “ संख्याङते-" ॥६।४।१३०॥ इति कः ।। १ ।। तत्पार्श्वीकूपकौ तु कुकुन्दरे ॥ २७२ ॥ तस्य त्रिकस्य पार्श्वे गर्तौ कुत्सितं कुन्देते आप्लवेते कुकुन्दरे, क्लीवलिङ्गोऽयं " जठर-" ।। . ( उणा - ४०३ ) ॥ इत्यरे निपात्यते, भागुरिस्तु - "कुकुन्दरौ समाचष्टे जनो जघनकू कौ” इति पुंस्याह । “श्वशुरकुकुन्दुर-" ।। . ( उणा - ४२६ ) ।। इत्युरे कुकुन्दुरोऽपि ।। १ ।। २७२ ।। शेषवात्र - कटीकूपौ तूचलिङ्गौ रताके ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy