SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ _३ मर्यकाण्डः । . सनयोरन्तरं स्तनान्तरम् ॥ १॥ हरति मनो हृद् , नपुंसकः, "बहुलम् ॥५। १। २॥ इति दुक् ॥२॥ “ गयहृदय-" ॥ ( उणा-३७० ) ॥ इत्यये निपातनाद् हृदयम् ॥ ३ ॥ शेषश्चात्र- हृद्यसहं मर्मचरं गुणाधिष्ठानकं त्रसम् ।। स्तनौ कुचौ पगोधरौ। ... .. __ उरोजौ च स्तनतः पीयमानौ स्तनौ ॥ १ ॥ कुचतः संकुचतः कुचौ ॥ २ ॥ पयो दुग्धं धरतः पयोधरौ ॥ ३ ॥ उररासि जातावुरोजौ, यौगिकत्वादुरसिज-वक्षेःजादयः ।।४।। शेषश्चात्र- स्तनौ तु धरणी॥ चुकं तु स्तनाद् वृत्त-शिखा मुखाः ।। २६७ ।। चत्यते बालेन चूचुकं, पुंक्लीलिङ्गः “कञ्चुका-" ॥ (उणा-५७) ॥ इत्युके निपात्यते, बालेन पीयमानं चूच्चित्यव्यक्तं कायति वा ॥ १ ॥ स्तनशब्दात्परें- वृन्ता-' दयः स्तनवृन्तम् , स्तनशिखा, स्तनमुखं स्तनाग्रभित्यर्थः ॥ २ ॥ ३ ॥ ४ ॥ २६७ ॥ शेपश्चात्र- अग्रे तयोः पिप्पलमेचकौ ॥ __ तुन्दं तुन्दिर्गर्भकुशी पिचण्डो जठरोदरे । तूयते पूर्यते तुन्दं "वृतु कुसुभ्यो नोन्तश्च" ॥ (उणा-२४०) ॥इति दः॥१॥ तुन्दन्त्येनां तुन्दिः, स्त्रीलिङ्गः “ नाम्युपान्त्य-" ॥ ( उणा-६ ० ९.) ॥ इति किः, बाहुलकाद् नोऽन्तश्च ॥ २ गिरत्याहारं गर्भः “ गृदृरमि-" ( उणा-३२७ ) इति भः ॥ ३ ॥ कुष्मात्याहारं “ पुषिप्लुषि-" ॥ ( उणा-७०७ ) ॥ इति किति सौ कुक्षिः पुंलिङ्गः, गौडस्तु- “उदरं कुाक्षरक्लीवे' इति स्त्रियामप्याह । वाचस्पतिस्तु. "कुक्षिस्तु जठराधारे” इति जठरात् पृथगाह ॥ ४ ॥ पचत्यन्नमपि, चमत्याहारमिति वा पिचण्डः “पिचण्डैरण्ड." ॥ ( उणा-१७६ ) ॥ इत्यण्डे निपात्यते ॥ ५ ॥ जमत्याहारं जठरं, पुंक्तीबलिङ्गः "जठर-' ॥ ( उणा-४०३ ) ॥ इत्यरे निपात्यते॥६॥ उजत्त्यन्नमत्र "मृयुन्दि-" ॥ ( उगा-३९९ ) ॥ इति कित्यरे उदरं, क्लीवलिङ्गः, • वैजयन्तीकारस्तु. "जठरं चोदरं न ना" इत्याह; त्रिलिङ्गोऽयमिति बुद्धिसागरः । ", उदियतीति वा ॥ ७ ॥ .. शेषश्चात्र- जठरे मलको रोमलताधारः ॥ कालखण्डं कालखनं कालेयं कालकं यकृत् ॥ २६८ ॥ . दक्षिणे हृदयस्य दक्षिणपार्श्वे कालस्य मांसस्य खण्डं कालखण्डं कृष्णमांसांशः ॥ १ ॥ कालमपि भिनं सत् खजयति कालखञ्जम् ॥ २ ॥ कु ईषद् लीयते श्लिष्यते
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy