SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ २४२ अभिधानचिन्तामणौ-.. . सविता देवताऽस्याः सावित्री ॥ १ ॥ नामग्रहणाऽयोग्याऽनामा, सैव अनामिका, ब्रह्मणोऽनया शिरश्छेदात् , अत एवाऽस्यां पवित्रकः क्रियते ॥ २॥ कनीनिका तु कनिष्ठा कनति दीप्यते कनीनिका ॥ १ ॥ अत्यल्पा कनिष्ठा ॥ २ ॥ अवहस्तो हस्तपृष्ठतः ॥ २५७ ॥ हस्तपृष्ठेऽवकृष्टो हस्तोऽवहस्तः ॥१॥२५७॥ कामाङ्कुशो महाराजः करजो नखरो नखः । करशूको भुजाकण्टः पुनर्भवपुनर्नवौ ॥ २५८ ॥ कामस्याङ्कुश इव कामाङ्कुशः ॥ १ ॥ महाराज इव शोभनत्वाद् महाराजः ॥ २॥ कराज्जातः करजः, यौगिकत्वात् पाणिजकररुहादयः ॥ ३ ॥ न खं राति नखरस्त्रिलिङ्गः, नखादित्वाद् नोऽद्भावाभावः,न खन्यते वा “जठर-"॥(उणा-४०३)॥ इत्यरे निपात्यते ॥ ४ ॥ नास्ति खमस्य नखः, पुंक्लीबलिङ्गः, न खन्यते वा " नञः कमि-" ॥ ( उणा-४) ॥ इति डः, नखादित्वाद् नमोऽदभावः, नखति गच्छतीति वा ॥ ५ ॥ करस्य शूक इव करशूकः ॥ ६ ॥ भुजायां कण्ट इव भुजाकण्टः ॥७॥ पुनर्भवति पुनर्भवः ॥ ८ ॥ पुनरपि नवः पुनर्नवः ॥९॥२५८॥ प्रदेशिन्यादिभिः सार्धमङ्गुष्ठे वितते सति । प्रादेशतालगोकर्णवितस्तयो यथाक्रमम् ॥ २५९ ॥ प्रदेशिन्या सार्धमङ्गुष्ठे प्रसारिते प्रादिश्यते प्रादेशः ॥ १॥ मध्यमया ततेऽङ्गुष्ठे ताल्यते तालः ॥ १ ॥ अनामिकया ततेऽङ्गुष्ठे गोः कर्णाकृतिर्गोकर्णः ॥ १॥ कनिष्ठया युतेऽङ्गुष्ठे वितस्यतीति वितस्तिद्वादशाङ्गुलः, पुंस्त्रीलिङ्गः "प्लुज्ञा-" ॥(उणा ६४६ ) ॥ इति तिः ॥ १ ॥ २५९ ॥ प्रसारिताङ्गुलौ पाणौ चपेटः प्रतलस्तलः । प्रहस्तस्तालिका तालः चप्यतेऽनेन चपेटः, पुंस्त्रीलिङ्गः “चपेरेटः" ॥ (उणा-१५८) ॥१॥ प्रसृतं तलमस्य प्रतलः ॥ २॥ तलति तलः ॥ ३ ॥ प्रसृतो हस्तः प्रहस्तः ॥ ४ ॥ तालयति तालिका ॥ ५ तलति तालः ॥ ६ ॥ सिंहतलस्तु तौ युतौ ॥ २६० ॥ तौ प्रसारितागुलवामदक्षिणौ पाणी सिंहस्येव तलः सिंहतलः, सिंहो हि मिलिताभ्यां चपेटाभ्यां हन्ति, संहतं संघर्ट लातीति वा । संहतालाख्य इत्येके ॥१॥२६॥ संपिण्डिताङ्गुलिः पाणिर्मुष्टिर्मुस्तुर्मुचुट्यपि। .
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy