SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ - ३ मर्त्यकाण्डः । . २४१ . प्रगण्डः कूर्परांसान्तः । कूर्परांसमध्यं प्रगण्यते, प्रगण्ज्यते वा प्रगण्डः ॥ १॥ पञ्चशाखः शयः शमः । हस्तः पाणिः करः पञ्च अङ्गुलिलक्षणाः शाखा अस्य पञ्चशाखः ॥ १॥ शेतेऽस्मिन् सर्वं शयः ॥ २ ॥ शाम्यति शमः ॥ ३ ॥ हसत्यनेन हस्तः, पुंक्तीबलिङ्गः “ दम्यमि" ॥ ( उणा-२००) ॥ इति तः, हसद्भिर्मुखे दीयते वा ॥ ४ ॥ पण्यतेऽनेन पाणिः पुंलिङ्गः “ कमिवमि-" ॥ ( उगा-६१८) ॥ इति णिदिः ॥ ५ ॥ कुर्वन्त्यनेन, कार्यते वा करः ॥ ६॥ शेषश्चात्र-हस्ते भुजदलः सलः॥ अस्यादौ मणिबन्धो मणिश्च सः ॥ २५५ ।। अस्य पाणेरादौ मूले मणेर्वन्धोऽत्र मणिबन्धः पाणिप्रकोष्ठसन्धिः ॥ १॥ मणति मणिः, पुंस्त्रीलिङ्गः “पदिपठि-" ॥ ( उणा-६०७ ) इतीः ॥ २ ॥ २५५ ।। करभोऽस्मादाकनिष्ठं अस्माद् मणिबन्धात् कनिष्ठां यावत् करे भाति करभः ॥ १ ॥ करशाखाङ्गुली समे। अङ्गुरी च करस्य शाखेव करशाखा ॥१॥ अङ्गत्यङ्गुरिः “मस्यसि-" ॥ (उणा-६९९) इत्युरिः, लत्वे ड्यां चाऽङ्गुली ॥२॥३॥ अङ्गुलोऽङ्गुष्ठः __ अङ्गु शरीरावयवं लाति अङ्गुलः ॥ १॥ अङ्गौ तिष्ठत्यङ्गुष्ठ: " गोऽम्बा-" ॥२॥३॥३०॥ इति षत्वम् ॥ २ ॥ - तर्जिनी तु प्रदेशिनी ॥ २५६ ।। तय॑तेऽनया तर्जनी ॥ १ ॥ प्रदिशति प्रदेशिनी ॥ २॥ २५६ ॥ - ज्येष्ठा तु मध्यमा मध्या अतिवृद्धा ज्येष्ठा ॥ १ ॥ मध्ये जाता मध्यमा “मध्यान्मः"॥६।३।७६॥२॥ मध्ये भूतत्वाद् मध्या ॥ ३ ॥ सावित्री स्यादनामिका ।
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy