________________
२४०
अभिधानचिन्तामणौ
इति सः ॥ १ ॥ भुजस्य बाहोः शिर इव भुजशिरः, भुजशिखरमपि ॥ २॥ स्कद्यते भारेण स्कन्धः “ स्कन्द्यमिभ्यां-" ॥ ( उणा-२५१) ॥ इति धे बाहुलकाद् दलोपः ॥ ३ ॥
जत्रु सन्धिरुरोंसगः ॥ २५२ ॥ वक्षःस्कन्धगतसन्धेरन्तरं जायत उद्भिनाऽस्थीति जत्रु, क्लीवलिङ्गः " जनिहनिशद्यतेस्त च" ॥ (उणा-८०९) ॥ इति रुः ॥ १॥ २५२ ॥
भुजो बाहुः प्रवेष्टो दोहा भुज्यतेऽनेन भुजः “भुजन्युज-" ॥ ४।१।१२०॥ इति घञि निपात्यते ॥१॥ वहति बाहुः, पुंस्त्रीलिङ्गो “मिवहि-"॥ (उणा-७२६) ॥ इति णिदुः ॥२॥ प्रवेष्टते प्रवेष्टः ॥ ३ ॥ दाम्यति दोः, पुंक्लीबलिङ्गः “यमिदमिभ्यां डोस्' ॥ (उणा१००५) ॥ ४ ॥ वाहृङ् प्रयत्ने वाहते प्रयतते वाहा ॥ ५ ॥
अथ भुजकोटरः ।
दोर्मूलं खण्डिकः कक्षा भुजस्य कोटरो भुजकोटरः, पुंक्लीबलिङ्गः ॥ १ ॥ दोष्णोर्मूलं दोर्मूलम् ॥ २ ॥ खण्डमस्याऽस्ति खण्डिकः ॥ ३ ॥ कष्यते कक्षा, पुंस्त्रीलिङ्गः “माका-" ॥ (उणा५६४) ॥ इति सः ॥ ४ ॥
पार्श्व स्यादेतयोरधः ॥ २५३ ॥ एतयोः कक्षयोरधस्तात् पर्शनां समूहः पार्श्व, पुंक्लीबलिङ्गः “ पर्वा ड्वण " ॥६।२।२०॥१॥२५३॥
कफोणिस्तु भुजामध्यं कफणिः कूपरश्च सः । कं फणति गच्छति कफोणिः स्त्रीलिङ्गः, पृषोदरादित्वात्, कफाणिरपि ॥१॥ भुजयोर्मध्यं भुजामध्यम् ॥ २ ॥ कं फणति कफणिः स्त्रीलिङ्गः “कूर्परः कफणिनषण्" इति पुंस्यपि वैजयन्ती ॥ ३ ॥ कल्पते कुरति वा कूर्परः "जठरककर-" ॥ (उणा-४०३) ॥ इत्यरे निपात्यते, कुपरोऽपि । शेषश्चात्र- कफोणौ रत्नपृष्ठकम् ॥ ४ ॥
बाहूपबाहुसन्धिश्च ।। अधस्तस्याऽऽमणिबन्धात् स्यात् प्रकोष्ठः कलाचिका ॥२५४॥
तस्य कूपरस्य मणिबन्धमवधीकृत्य प्रकुष्णाति प्रकोष्ठः, उपबाहु “कुषेर्वा" ॥ ( उणा-१६४ ) ॥ इति ठः ॥ १ ॥ करमञ्चति, आचिनोति वा पृषोदरादित्वात् कलाचिका ॥ २ ॥ २५४ ।। .