________________
२४
अभिधानचिन्तामणौ
अश्यते प्राप्यते क्षीणकर्मभिरिति वा । “मीज्यजिमामयशौवसिकिभ्यः सरः" । (उणा-४३९) ॥ इति सरः ॥ १५॥ कर्मभिर्मुच्यतेऽत्र मुक्तिः ॥ १६ ॥ मुच्यते सर्वकर्मभिरत्रेति मोक्षः “मावावद्यमि"-॥ (उणा-५६४) ॥ इति सः; मोक्ष्यन्ते त्यज्यन्ते दुःखान्यत्रेति वा ॥ १७ ॥ कर्मभिरपवृज्यतेऽत्रापवर्गः ॥ १८ ॥ शेषश्चात्र “निर्वाणे स्यात् शीतीभावः । शान्ति श्चिन्त्यमन्तिकः” ।
अथ मुमुक्षुः श्रमणो यतिः ॥७॥ वाचंयमो यती साधुरनगार ऋषिमुनिः ।. ..
निर्ग्रन्थो भिक्षुः मोक्तुमिच्छुर्मुमुक्षुः ॥ “सन्भिक्षाशंसेरुः" ॥५॥२॥३३॥ इति उः ॥ १॥ श्राम्यति तपसेति श्रमणः; श्रवणोऽपि नन्द्यादित्वादनः ॥ २ ॥ यतते मोक्षायेति यति: “पदिपठि-" ॥ (उणा-६०७) ॥ इत्यादिना इः ॥ यच्छत्युपरमति सर्वसङ्गेभ्य इति वा ॥ ३ ॥ वाचं यच्छति नियमयति वाचंयमः । “वाचंयमो व्रते" ॥५/११११५॥ इति साधुः ॥ ४ ॥ यतं यमनमस्त्यस्य यती ॥ ५॥ उत्तमक्षमादिभिगुणविशेषैर्भावितात्मा सानोति साधुः सम्यक्दर्शनादिभिः परमं पदं साधयतीति वा "कृवापाजिखदिसाधि"-॥ (उणा-१) ॥ इत्युण ॥ ६॥ नास्त्यगारमस्य अनगारः ॥ ७ ॥ ऋषति जानाति तत्त्वं ऋषिः “नाम्युपान्त्य"-॥ (उणा--६०९)॥ इति किः, दर्शनाद्वा ऋषिः, यद्भट्टतोतः-ऋषिश्च किल दर्शनादिति ॥ ८ ॥ मन्यतेऽसौ मुनि: “मनेरुदेतौ चास्य वा” (उणा-६१२) ॥ इति इः पुंस्त्रीलिङ्गः ॥९॥ ग्रन्थात् द्रव्यानिष्कान्तो निर्ग्रन्थः ॥१०॥ भिक्षणशीलो भिक्षुः । भिनत्ति क्षुधमटप्रकारं कर्मेति वा ॥११॥
अस्य स्वं तपो-योग-शमादयः ॥६॥ अस्य मुमुक्षोस्तपोयोगशमादयो धनं आदिशब्दात् क्षान्त्यादयः। ततस्तपोधनः, योगी, शमभृत् , क्षान्तिमानित्यादीनि यौगिकानि नामानि भवन्तीति ॥ ७६ ॥
मोक्षोपायो योगो ज्ञानश्रद्धानचरणात्मकः । मोक्षस्योपाय: कारणम् । मुमुक्षुभियुज्यते योगः ज्ञानं यथावस्थिततत्त्वावबोधः, श्रद्धानं सम्यक्तत्त्वेषु रुचिः, चरणं चारित्रं सावद्ययोगत्यागः, तानि आत्मा खरूपं यस्य स तथा ॥
__ अभाषणं पुनर्मोनं न भाष्यतेऽभाषणम् ॥ १ ॥ मुनेः कर्म मौनं 'क्लीबलिङ्गः "वृवर्णाल्लवादेः" ॥७१॥६९॥ इत्यण् ॥ २॥