________________
१ देवाधिदेवकाण्डः।
. अन्तराया दानलाभवीर्यभोगोपभोगगाः । हासो रत्यरती भीतिर्जुगुप्सा शोक एव च ॥७२॥ कामो मिथ्यात्वमज्ञानं निद्रा चाविरतिस्तथा ।
रागो द्वेषश्च नो दोषास्तेषामष्टादशाप्यमी ॥७३॥ दानगतोऽन्तराय इत्येको दोषः ॥ लाभगतोऽन्तराय इति द्वितीयः॥ वीर्यगतोऽन्तराय इति तृतीयः ॥ भुज्यते भोगः स्रगादिः तद्गतोऽन्तराय इति चतुर्थः ॥ उपभुज्यते उपभोगोऽङ्गनादिः तद्गतोऽन्तराय इति पञ्चमः ॥ हासो हास्यमिति षष्ठः ॥ रतिः पदार्थानामुपरि प्रीतिरिति सप्तमः ॥ अरती रतिविपर्यय इति अष्टमः ॥ भीतिर्भयमिति नवमः॥ जुगुप्सा घृणेति दशम: ॥ शोकश्चित्तवैधुर्यमित्येकादशः ॥७२॥ कामो मन्मथ इति द्वादशः ॥ मिथ्यात्वं दर्शनमोह इति त्रयोदशः ॥ अज्ञानं मौव्यमिति चतुर्दशः ॥निद्रा खाप इति पञ्चदशः॥अविरतिरप्रत्याख्यानमिति षोडशः॥रागः सुखाभिज्ञस्य सुखानुस्मृप्तिपूर्वः सुखे तत्साधनेऽप्यऽभिमते विषये गर्द्ध इति सप्तदशः ॥ द्वेषो दुःखाभिज्ञस्य दुःखानुस्मृतिपूर्वः दुःखे तत्साधने वा क्रोध इत्यष्टादशः ॥ इत्यष्टादश दोषास्तेषामृषभादीनामर्हतां न भवन्तीति ॥ ७३ ॥
महानन्दोऽमृतं सिद्धिः कैवल्यमपुनर्भवः । शिवं निःश्रेयसं श्रेयो निर्वाणं ब्रह्म निर्वृतिः ॥७४॥
महोदयः सर्वदुःखक्षयो निर्याणमक्षरम् । .. मुक्तिर्मोक्षोऽपवर्गः - महानानन्दोऽत्र महानन्दः ॥ १ ॥ नास्ति मृतमत्र अमृतम् ॥ २ ॥ सिद्धयत्यस्यामिति सिद्धिः ॥ ३ ॥ सर्वकर्मक्षयात्केवलस्यात्मनो भावः कैवल्यम् ॥ ४ ॥ न पुनर्भवो जन्मात्र अपुनर्भवः । न पुनर्भवतीति वा ॥ ५॥ सदानन्दमनैः शय्यते स्थीयतेऽस्मिन्निति शिवम् । “शीङापो हखश्च वा" ॥ (उणा-५०६) ॥ इति वः ॥ ६ ॥ निश्चितं श्रेयो निःश्रेयसम् । “निसश्च श्रेयसः” ॥७॥३।१२२॥ इत्यत्समासान्तः ॥ ७ ॥ अतिशयेन प्रशस्यं श्रेयः "गुणाङ्गात्"-॥७॥३॥९॥ इतीयसौ "प्रशस्यस्य श्रः" ॥७॥४॥३४॥ इति श्रादेशः ॥ ८॥ निर्वात्यात्माऽत्रेति निर्वाणम् । "निर्वाणमवाते" ॥४॥२॥७९॥ इति साधुः ॥ ९॥ बंहति वर्द्धतेऽस्मिन्नानन्द इति ब्रह्म पुंक्लीबलिङ्गः ॥१०॥ निर्बियते सुखीभूयतेऽस्यामिति निर्वृतिः ॥११॥७४॥ महान् ज्ञानस्योदयोऽत्रेति महोदयः ॥ १२ ॥ सर्वदुःखानां क्षयोऽत्र सर्वदुःखक्षयः ॥ १३ ॥ निर्यान्ति सर्वदुःखान्यत्र निर्याणम् ॥ १४ ॥ न क्षरति चलत्यस्मादात्मेत्यक्षरम् ।