________________
अभिधानचिन्तामणौअमर्मवेधितौदार्य धर्मार्थप्रतिबद्धता । कारकाद्यविपर्यासो विभ्रमादिवियुक्तता ॥ १९॥ चित्रकृत्त्वमद्भुतत्वं तथानतिविलम्बिता । अनेकजातिवैचित्र्यमारोपितविशेषता ॥ ७० ॥ सत्त्वप्रधानता वर्णपदवाक्यविविक्तता ।
अव्युच्छित्तिरखेदित्वं पञ्चत्रिंशच वाग्गुणाः॥ ७१ ।। संस्कारवत्त्वं संस्कृतादिलक्षणयुक्तत्वम् ॥ १ ॥ औदात्त्यमुच्चैर्वृत्तिता ॥ २ ॥ उपचारपरीतता अग्राम्यत्वम् ॥३॥ मेघगम्भीरघोषत्वं मेघस्येव गम्भीरशब्दत्वम् ॥४॥ प्रतिनादविधायिता प्रतिरवोपेतत्वम् ॥५॥६५॥ दक्षिणत्वं सरलत्वम् ॥६॥ उपनीतरागत्वं मालवकैशिक्यादिग्रामरागयुक्तता ॥७॥ एते च सप्त शब्दापेक्षयाऽतिशयाः। अन्ये त्वर्थाश्रया:- तत्र महार्थता बृहदभिधेयता ॥ ८॥ अव्याहतत्वं पूर्वापरवाक्यार्थाविरोधः ॥ ९॥ शिष्यत्वं अभिमतसिद्धान्तोक्तार्थता । वक्तु: शिष्टतासूचकत्वं च ॥ १० ॥ संशयानामसम्भवोऽसन्दिग्धत्वम् ॥११॥६६॥ निराकृतान्योत्तरत्वं परदूषणाविषयता ॥ १२ ॥ हृदयङ्गमता हृदयग्राह्यत्वम् ॥ १३ ॥ मिथःसाकादक्षता परस्परेण पदानां वाक्यानां वा सापेक्षता ॥ १४ ॥ प्रस्तावौचित्यं देशकालाव्यतीतत्वम् ॥ १५॥ तत्त्वनिष्ठता विवक्षितवस्तुस्वरूपानुसारिता ॥ १६ ॥ ६७ ॥ अप्रकीर्णप्रसूतत्वं सुसम्बद्धस्य सत: प्रसरणं, अथवा असम्बद्धाधिकारत्वातिविस्तरयोरभावः ॥ १७ ॥ अखश्लाघान्यानिन्दता आत्मोत्कर्षपरनिन्दाविप्रयुक्तत्वम् ॥ १८॥ आभिजात्यं वक्तुः प्रतिपाद्यस्य वा भूमिकानुसारिता ॥१९॥ अतिस्निग्धमधुरत्वं घृतगुडादिवत् सुखकारित्वम् ॥२०॥ प्रशस्यता उक्तगुणयोगात् प्राप्तश्लाघ्यता ॥२१॥६८॥ अमर्मवेधिता परमर्मानुयटनखरूपत्वम् ॥ २२॥ औदार्यमभिधेयस्यार्थस्यातुच्छत्वम् ॥ २३ ॥ धर्मार्थप्रतिबद्धता धर्मार्थाभ्यामनपेतत्वम् ॥ २४ ॥ कारकाद्यविपर्यासः कारककालवचनलिङ्गादिव्यत्ययवचनदोषापेतता ॥ २५ ॥ विभ्रमादिवियुक्तता विभ्रमो वक्तमनसो भ्रान्तता स आदिर्येषां विक्षेपादीनां ते विभ्रमादयो मनोदोषास्तैवियुक्तत्वम् ॥२६॥६९॥ चित्रकृत्त्वमुत्पादिताच्छिन्नकौतूहलत्वम् ॥ २७ ॥ अद्भुतत्वं प्रतीतम् ॥ २८ ॥ तथानतिविलम्बिता प्रतीता ॥ २९ ॥ अनेकजातिवैचित्र्यं जातयो वर्णनीयवस्तुखरूपवर्णनानि तत्संश्रयाद्विचित्रत्वम् ॥ ३० ॥ आरोपितविशेषता वचनान्तरापेक्षया आहितविशेषणत्वम् ॥३१॥७०॥ सत्त्वप्रधानता साहसोपेतता॥३२॥ वर्णपदवाक्यविविक्तता वर्णादीनां विच्छिन्नत्वम् ॥ ३३ ॥ अव्युच्छित्तिर्विवक्षितार्थसम्यसिद्धिर्यावदव्यवच्छिन्नवचनप्रमेयता ॥ ३४ ॥ अखेदित्वं अनायाससम्भव: ॥ ३५ ॥ इत्येवमहतां पञ्चत्रिंशद्वाचां गुणा अतिशया भवन्तीति । ७१॥