________________
१ देवाधिदेवकाण्डः ।
२१
आकाशे धर्मप्रकाशकं चक्रं धर्मचक्रं भवतीति देवकृतः प्रथमोऽतिशयः ॥ तथा खे चमरा इति द्वितीयः ॥ तथा खे पादपीठेन सह मृगेन्द्रासनं सिंहासनमुज्ज्वलं निर्मलमाकाशस्फटिकमयत्वादिति तृतीयः ॥ तथा खे च्छत्त्रत्रयमिति चतुर्थः ॥ तथा खे रत्नमयो ध्वज इति पञ्चमः ॥ तथा पादन्यासनिमित्तं सुवर्णकमलानि भवन्तीति षष्ठः ॥ ६१ ॥ तथा समवसरणे रत्नसुवर्णरूप्यमयं प्राकारत्रयं मनोज्ञं भवतीति सप्तमः ॥ तथा चत्वारि मुखानि अङ्गानि गात्राणि च यस्य स तथा तद्भावश्चतुर्मुखाङ्गता भवतीति अष्टमः ॥ तथा चैत्याभिधानो द्रुमोऽशोकवृक्षः स्यादिति नवमः ॥ तथा अधोमुखः कण्टका भवन्तीति दशमः ॥ तथा द्रुमाणामानतिर्नम्रता स्यादिति एकादशः ॥ तथा उच्चैर्भुवनव्यापी दुन्दुभिध्वानः स्यादिति द्वादश: ॥ वातः सुखदत्वादनुकूलो भवतीति त्रयोदशः तथा ॥ शकुनाः पक्षिणः प्रदक्षिणगतयः स्युरिति चतुर्दशः ॥६२॥ तथा गन्धोदकदृष्टिरिति पञ्चदशः ॥ बहुवर्णानां पञ्चवर्णानां जानूत्सेधप्रमाणपुष्पाणां वृष्ठिः स्यादिति षोडशः ॥ तथा क्रचानां केशानामुपलक्षणत्वात् लोम्नां च श्मश्रुणः कूर्चस्य, नखानां पाणिपादजानामप्रवृद्धिरवस्थितस्वभावत्वमिति सप्तदशः॥ तथा भवनपत्यादिचतुर्विधदेवनिकायानां जघन्यतोऽपि समीपे कोटिर्भवतीति अष्टादश: ॥ ६३ ॥ तथा ऋतूनां वसन्तादीनां सर्वदा पुष्पादिसामग्रीभिरिन्द्रियार्थानां स्पर्शरसगन्धरूप'शब्दानाममनोज्ञानामपकर्षेण, मनोज्ञानां च प्रादुर्भावेनानुकूलत्वं भवतीत्येकोनविंशः ॥ इति देवैः कृता एकोनविंशतिस्तीर्थकृतामतिशयाः । एते च यदन्यथाऽपि दृश्यन्ते तन्मतान्तरमवगम्यमिति । ते च सहजैश्चतुर्भिः कर्मक्षयजैरेकादशभिः सह मीलिताएकत्र योजिताश्चतुस्त्रिंशद्भवन्तीति ॥ ६४ ॥
अथ वचनातिशयानाह—
संस्कारवत्त्वमौदात्त्यमुपचारपरीतता ।
'मेघगम्भीरघोषत्वं प्रतिनादविधायिता ॥ ६५ ॥
दक्षिणत्वमुपनीतरागत्वं च महार्थता ।
अव्याहतत्वं शिष्टत्वं संशयानामसंभवः ॥ ६६ ॥
निराकृतान्योत्तरत्वं हृदयङ्गमतापि च । मिथः साकाङ्क्षत्ता प्रस्तावैौचित्यं तत्त्वनिष्ठता ॥ ६७ ॥ अप्रकीर्णप्रसृतत्वमख श्लाघान्यनिन्दता । आभिजात्यमतिस्निग्धमधुरत्वं प्रशस्यता ॥ ६८ ॥
१ मेघनिर्घोषगाम्भीर्यम् इत्यपि पाठः ।