SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ - ३ मर्यकाण्डः । २३७ तस्यौष्ठस्य प्रान्तौ सृजतो लालां मृकणी "सृजेः सज्सको च" ॥ ( उणा९०७) ॥ इति क्वनिप् 'सूक्किणी' इत्यमरः ॥ १॥ _असिकं त्वधः ॥ २४५ ॥ अधरस्याऽधोभागोऽस्यतेऽसिकं " क्रीकलि-" ॥ ( उणा-३८ ) ॥ इति बहुवचनादिकः ॥ १ ॥ २४५ ॥ असिकाधस्तु चिबुकं चीयते चिबुकं हन्वग्रसन्धिः " कञ्चुकांशुक-" ॥ ( उणा- ५७ ) ॥ इत्युके निपात्यते ॥ १॥ स्याद् गल्लः सृक्कणः परः । गल्यतेऽनेन गल्लः “ शामाश्या-" ॥ ( उणा- ४६२ ) ॥ इति बहुवचनालः ॥ १॥ गल्लात् परः कपोलश्च । कपिः सौत्रः, कप्यते कपोल: “ कटिपटि- " ॥ ( उणा- ४९३ ) ॥ इत्योलः ॥ १॥ परो गण्डः कपोलतः ॥ २४६ ॥ कपोलात् परो गण्डति गण्डः;गल्लादयस्त्रयोऽल्पविशेषत्वादेकार्था इत्येके॥१॥२४६॥ ततो हनुः ततो गण्डात् परो हन्त्याहारं हनुः, पुंस्त्रीलिङ्गः “कृहने-'॥ (उणा-७९१)॥ इति नुकि बाहुलकाद् नलोपः ॥ १॥ — श्मश्रु कूर्चमास्यलोम च मासुरी ।। - मनि मुखैकदेशे शेते श्मश्रु, क्लीबलिङ्गः "श्मनः शीडो डित्" ॥ (उणा-८१०)॥ इति रुः ॥ १॥ कीर्यते कूचं, पुंक्लीबलिङ्गः ॥२॥ आस्यैकदेशे लोम आस्यलोम॥३॥ मस्यति परिणमते मासुरी "श्वशुर-" ॥ (उणा-४२६) ॥ इत्युरे निपात्यते ॥ ४ ॥ ...शेषश्चात्र- श्मश्रुणि व्यञ्जनं कोटः ॥ - दाढिका दंष्ट्रिका दाढाप्रकृतिर्दाढिका ॥ १ ॥ एवं दंष्ट्रिका, द्राढिकाऽपि ॥ २ ॥ दाढा दंष्ट्रा जम्भः द्यति खण्डयति दाढा " बहुलम् " ॥५।१।२॥ इति ढः ॥ १॥ दश्यते... ऽनया दंष्ट्रा “ दंशेस्त्रः " ॥५।२।९०॥ इति त्रः ॥ २ ॥ जायते जम्भः “ गृदृर. मि." ॥ ( उणा-३२७ ) ॥ इति भः ॥ ३ ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy