SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ २३५ २३५ ३ मर्त्यकाण्डः । भानोरिदं भानवीयं “ दोरीयः " ॥ ६ । ३ । ३२ ॥ १ ॥ असौम्येऽक्षण्यनक्षि स्यात् सोमदेवताकत्वेन लक्षणया सौम्यमविकृतं न सौम्यमसौम्यं तत्राक्षणि, चिकृतमक्षि अनक्षि, नञ् विरोधे, अनर्थवत् ॥ १ ॥ ईक्षणं तु निशामनम् ॥ २४०॥ निभालनं निशमनं निध्यानमवलोकनम् । दर्शनं द्योतनं निर्वर्णनं च ईक्ष्यत ईक्षणम् ॥ १॥ शमिण् आलोचने, निशामनम् ॥ २ ॥२४० ॥ निभाल्यते निभालनम् ॥ ३ ॥ निशाम्यते निशमनं “शमोऽदर्शने" ॥ ४ । २।२८ ॥ इत्यत्र दर्शने एव ह्रख इति मताश्रयणाद् ह्रस्वः ॥४॥ निध्यायते निध्यानम् ॥५॥ अवलोक्यतेऽवलोकनम् ॥ ६ ॥ दृश्यते दर्शनम् ॥ ७ ॥ द्योत्यते द्योतनम् ॥ ८ ॥ निर्वर्ण्यते निवर्णनम् ॥ ९॥ अथार्धवीक्षणम् ॥ २४१ ॥ अपाङ्गदर्शनं काक्षः कटाक्षोऽक्षिविकूणितम् । अर्धे वीक्षणमस्यार्धवीक्षणम् ॥ १ ॥ अपाङ्गेन दर्शनमपाङ्गदर्शनम् ॥ २ ॥ ईषद् विकूणितत्वाद् अक्ष्यत्र काक्षः " अल्पे ” ॥ ३।२। १३६ ॥ इति कादेशः " सक्थ्यक्ष्णः- " ॥ ७।३।१२६ ॥ इति ८ः समासान्तः ॥ ३ ॥ कटस्य कपोलस्याऽक्षि कटाक्षः " संकटाभ्याम् ” ॥ ७।३ । ८६ ॥ इत्यत् समासान्तः ॥ ४ ॥ अक्ष्णोविकूणनमक्षिविकूणितम् ॥ ५ ॥ स्यादुन्मीलनमुन्मेषः उन्मील्यते उन्मीलनम् ॥ १ ॥ उन्मेषणमुन्मेषः ॥ २॥. निमेषस्तु निमीलनम् ॥ २४२ ॥ निमेषणं निमेषः ॥ १ ॥ निमील्यते निमीलनम् ॥ २ ॥ २४२ ॥ अक्ष्णोर्बाह्यान्तावपाडौ नेत्रयोरुपान्तप्रदेशौ अपकृष्टावङ्गावपाझौ ॥ १ ॥ भ्रूरूचे रोमपद्धतिः। अक्ष्णोरुपरि रोमराजिस्तन्नाम, भ्राम्यति भ्रूः, स्त्रीलिङ्गः "भ्रमिगमि"॥ (उणा८४३) ॥ इति डूः ॥१॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy