SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ . २३४ अभिधानचिन्तामणौ किरत्यनेन वा “ इणुवि-" ॥ ( उणा-१८२ ) ॥ इति णः ॥ ७ ॥ श्रूयतेऽनेन श्रोत्रं “ हुयामा-" ॥ ( उणा-४५१ ) ॥ इति त्रः ॥ ८ ॥ अनटि श्रवणं, पुंक्लीबलिङ्गः ॥ ९॥ ___वेष्टनं कर्णशष्कुली। वेष्टयतेऽनेन वेष्टनं कर्णशष्कुली ॥ १ ॥ शक्नोत्यनया श्रोतुं शष्कुली कर्णस्य शष्कुली कर्णशष्कुली ॥ २ ॥ पालिस्तु कर्णलतिका पाल्यते पालिः, स्त्रीलिङ्गः “ खरेभ्य इ:" ॥ ( उणा-६०६ ) ॥१॥ कर्णस्य लतेव कर्णलतिका ॥२॥ शेषश्चात्र- कर्णप्रान्तस्तु धारा स्यात् कर्णमूलं तु शीलकम् ॥ शङ्खो भालश्रवोऽन्तरे ॥ २३८ ॥ शाम्यन्त्यत्राऽऽहते प्राणा इति शङ्खः, 'क्लीबलिङ्गः “ शमिमनिभ्यां खः" ॥ ( उणा-८४) ॥ १ ॥ २३८ ॥ चक्षुरक्षीक्षणं नेत्रं नयनं दृष्टिरम्बकम् । लोचनं दर्शनं दृक् च चष्टे शुभाशुभं स्फुरणाच्चक्षुः “ चक्षेः शिद्वा" ॥ ( उणा-१००१ ) ॥ इत्युस् , अश्नुतेऽक्षि, क्लीबलिङ्गौ " पुषिप्लुषि-" ॥ ( उणा-७०७ ) ॥ इति कित्सिः ॥१॥२॥ ईक्ष्यतेऽनेनेक्षणम् ॥ ३ ॥ नीयतेऽनेन दृश्यमिति नेत्रं, पुंक्लीबलिङ्गः " नीदाम्ब्-" ॥ ५।२।८८ ॥ इति त्रट् ॥ ४ ॥ अनटि नयनम् ॥ ५ ॥ दृश्यतेऽनया दृष्टिः ॥ ६ ॥ अम्बतेऽम्बकम् ॥ ७ ॥ लोच्यतेऽनेन लोचनं, विलोचनमपि ॥८॥ दृश्यतेऽनेन दर्शनम् ॥ ९ ॥ पश्यति, दृश्यतेऽनया वा दृक् , स्त्रीलिङ्गः॥१०॥ शेषश्चात्र- अक्षिण रूपग्रहो देवदीपः ॥ तत्तारा तु कनीनिका ॥ २३९ ॥ तस्याऽक्ष्णः, तरयति तमस्तारा, पुंस्त्रीलिङ्गः, के तारकाऽपि, तच्छब्दोऽत्राक्षिपरामर्शी नक्षत्रव्यवच्छेदार्थः ॥ १॥ कनति दीप्यते कनीनिका “ कनेरीनकः " ॥ (उणा-७३ ) ॥ २ ॥ २३९ ॥ वामं तु नयनं सौम्यं सोमो देवताऽस्य सौम्यं “ कसोमाढ्यण् ” ॥ ६ ॥२।१०७ ॥ १ ॥ भानवीयं तु दक्षिणम् ।
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy