SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ ३ मर्त्यकाण्डः । २३३ ||५|१|१७१ ॥ इति डे ङीः ॥ २ ॥ केशान् पाशयतीति केशपाशी ॥ ३ ॥ इत्येनां 46 शिखा " श्यतेरिच्च वा "" ॥ ( उणा - ८५ ) ॥ इति खः ॥ ४ ॥ शिखण्डतुल्याः शिखण्डिकाः ॥ ५ ॥ २३५ ॥ सा बालानां काकपक्षः शिखण्डकशिखाण्डकौ । काकपक्ष इव काकपक्षः ॥ १ ॥ शिरसि खण्ड्यते, शिखिवद् डयते वा शिखण्डः, पृषोदरादित्वात्, के शिखण्डकः ॥ २ ॥ शिरो मण्डयति शिखाण्डकः, पृषोदरादित्वात् ॥ ३ ॥ तुण्डमास्यं मुखं वक्त्रं लपनं वदनानने ॥ २३६ ॥ 66 "2 "" तुज्यतेऽनेन, तुण्डं तुणति कुटिलीभवति वा " कुगुहु - " ॥ ( उणा - १७० ) ॥ इति किद् डः ॥ १ ॥ अस्यत्यनेन वर्णमास्यं “ शिक्यास्य- " ॥ ( उणा - ३६४ ) ॥ इति निपात्यते ॥ २ ॥ मह्यते मुखं, पुंक्लीबलिङ्गः मरुच्चास्य वा 11 ( उणा - ८९ ) ॥ इति साधुः ॥ ३ ॥ उच्यतेऽनेनेति वक्त्रं “ हुयामा- ॥ ( उणा - ४५१ ) ॥ इति त्रः, मुदितांनि खान्यत्रेति वा पृषोदरादित्वात् ॥ ४ ॥ लप्यतेऽनेनेति लपनम् ॥ ५ ॥ उद्यतेऽनेनेति वदनम् ॥ ६ ॥ आ समन्तादनित्यनेनाऽऽननम् ॥ ७ ॥ २३६ ॥ शेषश्चात्र - मुखे दन्तालयस्तेरं घनं चरं घनोत्तमम् ॥ भाले गोध्यलिकालीकललाटानि "" भल्यते परिभाष्यते शुभाशुभमत्र भालं, पुंक्लीबलिङ्गः, तत्र ॥ १ ॥ गुध्यते पढादिना वेष्टयते गोधिः, स्त्रीलिङ्गः “ किलिपिलि- ॥ ( उणा - ६०८ ८ ) ॥ इति इः ॥ २ ॥ अल्यते भूयते तिलकादिभिरलिकं " क्रीकल्यलि - " 11 (JO11-32) 11 इतीकः “ स्यमिकषि- ” ॥ ( उणा - ४६ ) ॥ इतीऽलीकम् ॥ ३ ॥ ४ ॥ ललतेऽत्रालङ्कारो ललाटम् “ अनिशृ- " ॥ ( उणा - १४५ ) ॥ इत्यादः ॥ ५ ॥ श्रुतौ श्रवः । शब्दाधिष्ठान पैज्जूषमहानादध्वनिग्रहाः ॥ २३७ ॥ कर्णः श्रोत्रः श्रवणं च 66 श्रूयतेऽनया श्रुतिः, श्र्वादित्वात् तिः, तत्र ॥ १ ॥ शृणोति श्रवः क्लीबलिङ्गः अस् ”॥(उणा - ९५२) ॥ इत्यस् || २ || शब्दोऽधितिष्ठत्यत्र शब्दाधिष्ठानम् ॥ ३ ॥ पिज्जूषः कर्णमलः सोऽत्रास्ति ज्योत्स्नाद्यणि पैंजूषः, पुंक्लीबलिङ्गः, यद्वाचस्पति:श्रवः पैञ्जूषमस्त्रियाम् ॥ ४ ॥ महान् नादो निर्घोषोऽत्रेति महानादः ॥ ५ ॥ ध्वनिर्गृह्यतेऽनेन ध्वनिग्रहः, शब्दग्रहोऽपि ॥ ६ ॥ २३७ ॥ कर्ण्यतेऽनेन कर्णः,
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy