SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ २३२ अभिधानचिन्तामणौ स तु भाले भ्रमरकः कुरुलो भ्रमरालकः ॥ २३३ ।। . . . स त्वलको भाले ललाटे भ्रमरप्रतिकृतिभ्रमरकः, पुंक्लीबलिङ्गः ॥१॥ कु ईषल्लुलति कुरुलः, पृषोदरादित्वात् , यलक्ष्यम्- “कुरुलालसभ्रूलेहे” इति ॥ २ ॥ भ्रमराकृतिरलको भ्रमरालकः ॥ ३ ॥ २३३ ॥ धम्मिल्लः संयताः केशाः ऊर्ध्व मिलति धम्मिल्लः, पृषोदरादित्वात् , धमेः सौत्रस्य “भिल्लाच्छभल्ल-''। ( उणा-४६४ ) ॥ इति निपातनाद् वा ॥ १ ॥ शेषश्चात्र- धम्मिल्ले मौलिजूटको ।। केशवेषे कबरी केशानां वेषे रचनायां कूयते कवरी "ऋच्छिचटि-" ॥ ( उणा-३९७ ) ॥ इत्यरे " भाजगोण-" ॥ २।४।३० ॥ इति ङीः, कं वृणोतीति वा ॥१॥ शेषश्चात्र- कर्बरी तु कबर्यो स्यात् ॥ अथ । वेणिः प्रवेणी वीयते वेणिः, स्त्रीलिङ्गः “कावावी-" ॥ ( उणा-६३४ ) ॥ इति णिः॥१॥ प्रकृष्टा वेणिः प्रवेणी ॥ २॥ ___ शीर्षण्यशिरस्यौ विशदे कचे ॥ २३४ ॥ शिरसि भवः शिरस्यः, शीर्षण्यः “ दिगादि-" ॥ ६।३।१२४ ॥ इति ये " केशे वा” ॥३।२।१०२॥ इति शीर्षन्नादेशः, पक्षे शिरस्यः ॥ १ ॥ २ ॥ विशदेऽन्योन्यासंपृक्त स्नानादिनिर्मले वा ॥ २३४ ।। शेषश्चात्र- प्रलोम्न्यो विशदे कचे॥ केशेषु वर्त्म सीमन्तः सिनोति केशाननेन सीमन्तः “ सीमन्तहेमन्त-" ॥ ( उणा-२२२ ) ॥ इत्यन्ते निपात्यते, सीम्रोऽन्त इति वा पृषोदरादित्वात् ॥ १॥ पलितं पाण्डुरः कचः । पलति याति श्वेतत्वं पाकातू पलितं, पुंक्लीबलिङ्गः "हृश्यारुहि-" ॥ ( उणा२१०) ॥ इति तः ॥ १॥ चूडा केशी केशपाशी शिखा शिखण्डिकाः समाः ॥२३५॥ चोट्यते चूडा, भिदादित्वादङि निपात्यते ॥ १॥ के शेते केशी " क्वचित् "
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy