________________
३ मर्त्यकाण्डः।
२३१
प्राणिन इति मूर्धा, पुंलिङ्गः “ श्वन्मातरि-" ॥ ( उणा-९०२ ) ॥ इत्यनि निपात्यते ॥ ३ ॥ मूयते बध्यते मुकुटादिकमत्रेति मौलिः, पुंस्त्रीलिङ्गः "धूमूभ्यां-" ॥ ( उणा-७०१)॥ इति लिण् ॥ ४ ॥ मुण्यते प्रतिज्ञायते मुण्डः, पुंक्लीबलिङ्गः "कुगुहु-" ॥ ( उणा-१७० ) ॥ इति किद् डः, मुण्ड्यते वा ॥ ५ ॥ कायति कं " क्वचित् " ॥ ५ । १ । १७१ ॥ इति डः ॥ ६॥ मस्यति परिणमते तस्य "दम्यमि-" ॥ ( उणा-२०० ) ॥ इति ते मस्तं, खार्थे के मस्तकं, पुंक्लीबीलङ्गः, मसेः “इष्याश-" ॥ ( उणा-७७ ) ॥ इति तकक् वा ॥७॥ २३०॥ वरमङ्गं वराङ्गम् ॥ ८ ॥ करणानीन्द्रियाणि त्रायन्तेऽनेनेति करणत्राणम् ॥ ९ ॥ शीयते मस्यति जरसा शीर्षे “ ऋजिरिषि." ॥ ( उणा-५६७ ) ॥ इति कित् सः ॥१०॥ मस्तिकं " कुशिक-" ॥ ( उणा-४५) ॥ इति इके निपात्यते ॥ ११ ॥
तज्जाः केशास्तीर्थवाकाश्चिकुराः कुन्तलाः कचाः ॥ २३१ ॥ वालाः स्युः
तस्मिन् शिरसि जातास्तजाः शिरसिजाः, क्लिश्यत एभिः केशाः " क्लिशः के च"॥(उणा-५३०)॥ इति शः, के शेरत इति वा ॥१॥ तीर्थे उच्यन्त उपयाच्यन्ते तीर्थवाकाः ॥ २॥ चक्यन्ते प्रतिहन्यन्ते चिकुराः "श्वशुर-" ॥ ( उणा-४२६ ) ॥ इत्युरे निपात्यते, विहुरास्तु प्राकृते कस्य हादेशात्, संस्कृतेऽपीति दुर्गः; यदाह-"कुन्तला मुर्धजास्त्वस्राश्चिकुराश्चिहुराः" इति ॥ ३ ॥ कनन्ति दीप्यन्ते कुन्तलाः "मुरलोरल-" ॥ ( उणा-४७४ ) ॥ इत्यले निपात्यते, कुन्ताकारं लान्ति वा ॥ ४ ।। कचन्ते कचाः ॥ ५ ॥ २३१ ॥ वल्यन्ते वालाः, पुंक्तीबलिङ्गः, वलन्ति वा ज्वलादित्वाद् णः ॥ ६ ॥ शेषश्चात्र-कचे पुनः ।
वृजिनो वेल्लितायोऽश्रः ॥ . तत्पराः पाशो रचना भार उच्चयः ।
हस्तः पक्षः कलापश्च केशभूयस्त्ववाचकाः ॥ २३२ ॥ तेभ्यः केशादिशब्देभ्यः पराः पाशादयः शब्दाः केशभूयस्त्वं वदन्ति, यथा केशपाशः ॥ १॥ केशरचना ॥ २ ॥ केशभारः ॥ ३ ॥ केशोच्चयः ॥ ४ ॥ केशहस्तः ॥ ५ ॥ केशपक्षः ॥ ६॥ केशकलाप इति ॥ ७ ॥ प्रशंसारूढत्वादेभिः कर्मधारयः ॥ २३२॥
अलकस्तु कर्करालः खङ्खरश्चूर्णकुन्तलः । __ अलयति भूषयत्यलकः, पुंक्लीबलिङ्गः “ दृकृन-" ॥ ( उणा-२७ ) ॥ इत्यकः ॥ १ ॥ कर्करत्वेन कटोरत्वेन अलति कर्करालः ॥ २ ॥ खमिन्द्रियं खरयति खतरः, पृषोदरादित्वात् ॥३॥ चूर्णाकारः कुन्तलश्चूर्णकुन्तलः कुटिलकेशः ॥ ४ ॥