________________
३ मर्यकाण्डः ।
२२९
स्त्रीपुंसाभ्यां तृतीया प्रकृतिर्लिङ्गमत्र तृतीयाप्रकृतिः स्त्रीलिङ्गः “ तद्धिताककोपान्त्य-" ॥ ३।२।५४ ॥ इति पुंवद्भावाभावः ॥ १॥ पण्डते गच्छति उभयव्यजनता पण्डः, पनायति स्त्रीपुंसाविति वा “पञ्चमाड्डः" ॥(उणा-१६८)॥ पण्डुरपि ॥ २ ॥ सनति षण्डः “ शमिषणिभ्यां-" ॥ (उणा-१७९) ॥ इति ढे बाहुलकात् सत्वाभावः ‘शण्ढः' इत्यमरः ‘शण्ठः' इत्यन्ये ॥ ३ ॥ क्लीबते क्लीबः ॥ ४ ॥ पुंसण् अभिमर्दने, न पुंसयति नपुंसकं, पुंक्लीबलिङ्गौ " नञः पुंसेः " ॥ ( उणा-३२) ॥ इत्यके नखादित्वाद् अद् न भवति, न स्त्री न पुमान् इति वा, नखादित्वात्॥५॥२२६॥
इन्द्रियायतनमङ्गविग्रही क्षेत्रगात्रतनुभूघनास्तनू : । मूर्तिमत्करणकायमूर्तयो वेरसंहननदेहसंचराः ॥ २२७ ॥ घनो बन्धः पुरं पिण्डो वपुः पुद्गलवर्मणी ।
कलेवरं शरीरः . इन्द्रियाणामायतनमिन्द्रियायतनम् ॥ १॥ अमति वृद्धिमङ्गम् "गम्यमि-" ॥ (उणा-९२)॥ इति गः, अङ्गतीति वा ॥ २ ॥ विगृह्यते रोगादिभिरिति विग्रहः ॥३॥ क्षयत्यवश्यं क्षेत्रम् " हुयामा-" ॥ ( उणा-४५१)॥ इति त्रः ॥ ४ ॥ गच्छति गात्रम् “ गमेरा च " ॥ ( उणा-४५३ ) ॥ इति त्रः॥५॥ तन्यते. तनुः, स्त्रीलिङ्गः "भृमृतृ-" ॥ ( उणा-७१६ ) ॥ इत्युः ॥ ६ ॥ भुवा पृथिव्या घनो भूघनः ॥ ७ ॥ तन्यते तनू :, स्त्रीलिङ्गः “कृषिचमि-"॥(उणा-८२९)। इत्यूः ॥ ८ ॥ मूर्तिः काठिन्यमस्त्यस्य मूर्तिमत् ॥९॥ क्रियतेऽनेन करणम् ॥१०॥ चीयतेऽसौ कायः “चितिदेहा-” ॥ ५।३।७९ ॥ इति घञ् कत्वं च ॥ ११ ॥ मूच्छत्यनया मूर्तिः ॥ १२ ॥ वेति प्रजायते वेरं, पुंक्तीबलिङ्गः "खुरक्षुर-"॥(उणा३९६)॥ इति रे साधुः ॥१३॥ संहन्यन्तेऽङ्गान्यत्र संहननम् ॥ १४ ॥ धातुभिर्दिह्यते देहः, पुंक्लीबलिङ्गः ॥१५॥ संचरत्यनेन संचरः “गोचरसंचर-"॥५।३।१३१॥ इति घः ॥१६॥२२७॥ धातुभिर्हन्यते घनः “मूर्तिनिचिताऽभ्रे घनः" ॥ ५।३।३७ ॥ इत्यलि निषात्यते ॥१७॥ बध्यते पञ्चभिर्भूतैर्बन्धः ॥ १८॥ पुरति पुरम् ॥ १९ ॥ धातुभिः पिण्ड्यते पिण्डः, पुंक्लीबलिङ्गः ॥२०॥ उप्यते वपुः, क्लीबलिङ्गः "रुद्यर्ति-" ॥(उणा९९७ ) ॥ इत्युस् ॥ २१ ॥ पद्यते पुद्गलः “मुरलो-" ॥ ( उणा-४७४ ) ॥ इत्युले निपात्यते, पूरण-गलनधर्मत्वाद्वा, पृषोदरादित्वात् ॥ २२ ॥ वृष्यते सिच्यते, वर्षति मलान् वा वर्म, क्लीबलिङ्गः “मन्” ॥ (उणा-९११ )॥ इति मन् ॥२३॥ कडति माद्यति कडेवरम् “ कडेरेवरा-” ॥ (उणा-४४५) ॥ इत्येवरः, लत्वे कलेवरम् ॥२४॥ शीर्यते शरीरः, पुंक्लीबलिङ्गः “कृशृप-" ॥ ( उणा-४१८ ) ॥ इतीरः ॥२५॥