SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ २२८ अभिधानचिन्तामणौ मातुर्मातामहाः कुले ॥ २२३ ॥ मातुः कुले वंशे भवाः पूर्वपुरुषा मातामहाः ॥ १ ॥ __ पितरौ मातापितरौ मातरपितरौ पिता च माता च । पिता च माता च द्वौ पितरौ "पिता मात्रा वा” ॥ ३ । १ । १२२ ॥ १॥ इत्येकशेषः “आ द्वन्द्वे''॥३। २ । ३९ ॥ इत्यात्वे मातापितरौ ॥२॥ “मातरपितरं वा" ॥ ३ । २ । ४७ ॥ इति निपातनाद् मातरपितरौ ॥ ३ ॥ श्वश्रूश्वशुरौ श्वशुरौ श्वशुरश्च श्वश्रूश्च द्वौ श्वशुरौ " श्वशुरः श्वश्रूभ्यां वा” ॥ ३ । १ । १२३ ॥ इत्येकशेषः ॥ १ ॥२॥ 'पुत्रौ पुत्रश्च दुहिता च ॥ २२४ ॥ . "भ्रातृपुत्राः स्वसृदुहितृभिः” ॥ ३ । १ । १२१ ॥ इत्येकशेषः ॥ १॥२२४॥ भ्राता च भगिनी चापि भ्रातरौ स्पष्टम् ॥ १॥ अथ बान्धवः । स्वो ज्ञातिः स्वजनो बन्धुः सगोत्रश्च , बन्धुरेव वान्धवः, प्रज्ञादित्वादण् ॥ १ ॥ अस्यत्यन्यजाति स्वः "प्रबाहा-" ॥ (उणा-५१४) ॥ इति निपात्यते ॥ २ ॥ ज्ञायते ज्ञातिः पुंलिङ्गः "प्लुज्ञा-" ॥ (उणा-६४६) ॥ इति तिः ॥३॥ स्व आत्मीयश्चासौ जनश्च स्वजनः ॥४॥ बध्नाति स्नेहं बन्धुः "भृमृतृ-" ॥ (उणा-७१६) ॥ इत्युः ॥ ५ ॥ समानं गोत्रमस्य सगोत्रः " समानस्य धर्मादिषु " ॥३।२।१४९॥ इति सभावः ॥ ६ ॥ निजः पुनः ॥ २२५॥ आत्मीयः स्वः स्वकीयश्च निजातो निजः "क्वचित्" ॥५।१।१७१॥ इति डः ॥ १॥ २२५॥ आत्मनोऽयमात्मीयः “ दोरीयः "॥ ६।३।३२ ॥ २ ॥ अस्यति परं खः ॥ ३ ॥ स्वकस्यायं स्वकीयः, गेहादित्वादीयः ॥ ४ ॥ सपिण्डास्तु सनाभयः । समानः पिण्ड एषां सपिण्डाः, यत्स्मृतिः- “सपिण्डता तु पुरुषे सप्तमे विनिवतते, सप्तमादूर्ध्व सगोत्राः" ॥१॥ सपा नाभिर्मूलं येषां ते सनाभयः “समानस्य"॥ ३।२।१४९ ॥ इति सत्वम् ॥ २॥ तृतीया प्रकृतिः पण्डः षण्ढः क्लीबो नपुंसकम् ॥ २२६ ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy