SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ ३. मर्यकाण्डः। २२७ तस्य पितुः पिता पितामहः "पित्रो महद्" ॥ ६।२।६३ ॥ १॥ तत्पिता प्रपितामहः । तस्य पितामहस्य पिता, प्रवृद्धः पितामहात् प्रपितामहः ॥ १॥ मातुर्मातामहाद्येवं एवमित्यमुना प्रकारेण, मातुः पिता मातामहः, तस्य पिता प्रमातामहः॥१॥ माताऽम्बा जननी प्रसूः ॥ २२१ ॥ सवित्री जनयित्री च मान्यते माता “मानिभ्राजेर्लक् च" ॥ (उणा-८५९) ॥ इति तृः ॥ १॥ अमति याति वात्सल्यमम्बा "शम्यमेणिद्वा" ॥ (उगा-३१८) ॥ इति बः, अम्बते' जल्पतीति वा ॥ २ ॥ जायतेऽस्यामिति जननी ॥ ३ ॥ प्रसूते प्रसूः ॥ ४॥२२१॥ सूते सवित्री ॥५॥ जनयति जनयित्री " या जनित्री त्रिलोक्याः" इति त्वन्तर्भावितण्यर्थत्वात् ॥ ६॥ शेषश्चात्र- जानी तु मातरि ॥ कृमिला तु बहुप्रसूः। अपत्यानि भूयस्त्वात् कृमीनिव लाति जनयति कृमिला । बहून्यपत्यानि प्रसूते बहुप्रसूः ॥३॥ धात्री तु स्यादुपमाता . धयन्ति तामिति धात्री स्तनदायिनी "धात्री" ॥५।२।९१॥ इति त्रटि निपात्यते ॥ १॥ उपजाता, उपचरिता वा मातोपमाता ॥ २ ॥ वीरमाता तु वीरसू ः ॥ २२२ ॥ वीरं सूते वीरसूः ॥ १ ॥ २२२ ॥ . श्वश्रूर्माता पतिपत्न्योः . . प्रत्युः, पल्याश्च माता श्वशुरस्य भार्या श्वश्रूः "नारीसखी-" ॥२॥४॥७६॥ इत्यूङि निपात्यते ॥१॥ . . श्वशुरस्तु तयोः पिता। ... तयोरिति पत्युः पल्याश्च पिता, सुशोभनमश्नुते, अन्नाति वा श्वशुरः "श्वशुरफुकुन्दुर-" ॥ (उणा-४२६) ॥ इत्युरे निपात्यते ॥ १ ॥ पितरस्तु पितुर्वश्याः पितुशे भवाः पूर्वपुरुषाः, पान्ति रक्षन्तीति पितरः ॥ १॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy