________________
२२६
अभिधानचिन्तामणौ
पत्युः स्वसा न नन्दयति वधूं ननान्दा “ यतिननन्दिभ्यां दीर्घश्च" (उणा-८५६)॥ इति ऋः, नखादित्वान्नोऽदभावः बाहुलकाद् दीर्घत्वाभावे ननन्दा ॥ १ ॥ २ ॥ नन्दति नन्दयति वा अवश्यं नन्दिनी ॥ ३ ॥
पत्न्यास्तु भगिनी ज्येष्ठा ज्येष्ठश्वश्रूः कुली च सा ॥२१८॥ ज्येष्ठा चासौ श्वश्रूश्च ज्येष्टश्वश्रूः ॥ १॥ कोलति कुली ॥२॥ २१८॥
कनिष्ठा श्यालिका हाली यन्त्रणी केलिकुञ्चिका । पत्न्याः कनिष्ठभगिनी श्याल्येव श्यालिका ॥ १॥ हलति हाली, ज्वलादित्वाद् णे ङीः ॥ २ ॥ यन्त्रयति यन्त्रणी ॥३॥ केल्यां कुञ्चति कुटिलीभवति केलिकुञ्चिका ॥ ४ ॥
केलिर्द्रवः परीहासः क्रीडा लीला च नर्म च ॥ २१९ ।।
देवनं कूर्दनं खेला ललनं वर्करोऽपि च । केलनं केलिः, पुंस्त्रीलिङ्गः “ किलिपिलि-" ॥ ( उणा-६०८) ॥ इति इ. ॥१॥ द्रवति हृदयमनेन द्रवः ॥ २ ॥ परिहसनं परिहासः “ घञ्युपसर्गस्य." ॥३॥२॥८६॥ इति दीर्घत्वे परीहासः ॥ ३ ॥क्रीडनं क्रीडा 'केलिपरिष्वष्कितोयम्' इति केचित् ॥४॥ ललनं लीला भिदादित्वादङि निपात्यते ॥ ५॥ नृणाति विनयति नौ, क्लीबलिङ्गः " मन् "॥ ( उणा-९११)॥ इति मन् ॥ ६॥ २१९ ॥ दीव्यते देवनम् ॥ ७ ॥ कूर्यते कूर्दनम् ॥ ८ ॥ खेलनं खेला ॥ ९ ॥ लल्यते ललनम् ॥ १० ॥ वृणोत्यनेन वर्करः “ किशृवृभ्यः करः ” ॥ (उणा-४३५) ॥ खेलाकूर्दनशब्दौ केलिपरिष्वष्किते रूढावपि विशेषानाश्रयणादस्माभिः केलिपर्यायत्वेनोक्तौ ॥ ११ ॥ शेषश्चात्र- स्यात्तु नर्मणि ॥
सुखोत्सवो रागरसो विनोदोऽपि किलोऽपि च ।। वप्ता तु जनकस्तातो बीजी जनयिता पिता ॥ २२०॥ वपति बीजं वप्ता ॥ १ ॥ जनयति जनकः, जायतेऽस्माद् वा " दृकृ-" ॥ (उणा-२७) ॥ इत्यकः ॥ २ ॥ तनोति सन्ततिं तातः “सुसितनि-" ॥ (उणा२०३)॥ इति कित् , तो दीर्घत्वं च, यद्वा तनोति ततः, ततः स्वार्थेऽण् ॥३॥ बीजमस्त्यस्य बीजी ॥ ४ ॥ जनयति जनयिता ॥५॥ पाति रक्षति पिता “ पातेरिच" ॥ ( उणा-८५८ ) ॥ इति तृः ॥ ६ ॥ २२० ॥
शेषश्चात्र- वप्यो जनित्रो रेतोधास्ताते ॥
पितामहस्तस्य पिता