SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ ३ मयंकाण्डः । . २२५ दयः, सौदर्यः “सोदर्यसमानोदयौं' ॥६।३।११२॥ इति यान्तौ निपात्येते ॥३॥४॥ समानो गर्भोऽस्य सगर्भः “समानस्य-"॥ ३।२।१४९ ॥ इति सभावः। “सगर्भः" इत्यमरः ॥ ५ ॥ सह जायते सहजः ॥ ६ ॥ समानमुदरमस्य सोदरः ॥ ७ ॥ ___स तु ज्येष्ठः स्यात् पित्र्यः पूर्वजोऽग्रजः ॥ २१५ ॥ स तु भ्राता, द्वयोर्मध्ये प्रकृष्टो वृद्धो ज्येष्ठः ॥ १ ॥ पितुरागतः पित्र्यः " पितुर्यो वा" ॥ ६।३।१५१ ॥ इति यः॥ २ ॥ पूर्व जातः पूर्वजः ॥ ३ ॥ अग्रे जातोऽप्रजः “कचित्"॥५।१।१७१।। इति डः, यौगिकत्वादग्रिमोऽपि ॥४॥२१५॥ जघन्यजे यविष्ठः स्यात् कनिष्ठोऽवरजोऽनुजः । स यवीयान् कनीयांश्च जघन्यजः पश्चाजातस्तत्र ॥ १ ॥ अतिशयेन युवाऽल्पो वा यविष्ठः, कनिष्ठः " गुणाङ्गा-" ॥७३।९॥ इतीष्ठे “ अल्पयूनोः कन्वा " ॥७।४।३३॥ इति कनादेशः ॥ २ ॥ ३ ॥ अवरे जातोऽवरजः ॥४॥ अनुजातोऽनुजः ॥५॥ अतिशयेन युवा यवीयान् , कनीयान् ॥ ६ ॥ ७ ॥ शेषश्चात्र- स्यात् कनिष्ठे तु कन्यसः ॥ पितृव्यश्यालमातुलाः ॥ २१६ ॥ पितुः पत्न्याश्च मातुश्च भ्रातरः पितुर्भ्राता पितृव्यः “ पितृभ्रातुर्व्यडुलं भ्रातरि ” ॥६।२।६२॥ इति साधुः ॥१॥ पन्या भ्राता, श्यायति श्यालः " श्यामाश्या-" ॥ ( उणा-४६२) ॥ इति लः ॥ १ ॥ मातु ता मातुलः ॥ १ ॥ २१६ ॥ देवृदेवरौ । देवा चावरजे पत्युः पत्युभर्तुरनुजे दीव्यतीति देवा “दिव ऋ:"॥ (उणा-८५२)॥१॥ देवते देवरः "ऋछिचटि-"॥ ( उणा-३९७) ।। इत्यरः ॥ २ ॥ " बहुलम् " ॥५।१।२॥ इत्यनि . देवा ॥३॥ - जामिस्तु भगिनी स्वसा ॥ २१७ ॥ जमति, अतीव जामिः “ कमिवमि-" ॥ ( उणा-६१८ ) ॥ इति णिदिः ॥१॥ भगः कल्याणमस्त्यस्या भगिनी ॥ २ ॥ सुष्ठु अस्यते स्वसा “सोरसेः " ॥ ( उणा-८५३ ) ॥ इति ऋः ॥ ३ ॥ २१७ ॥ शेषश्चात्र- ज्येष्टभगिन्यां तु वीरभवन्ती ॥ ननान्दा तु स्वसा पत्युननन्दा नन्दिनीत्यपि ।
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy