SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ २२४ अभिधानचिन्तामणौ... बन्धून् लाति बन्धुलः ॥१॥ बन्धक्या अपत्यं बान्धकिनेयः "कल्याण्यादे-" . ॥६।१।७७॥ इत्येयण् ॥ २ ॥ अत्र कुलटा असती, तदपत्यं कौलटेरः "क्षुद्रा-" ॥६।११८०॥ इलेरण् ॥ १ ॥ २१२ ॥ .. स तु कौलटिनेयः स्याद् यो भिक्षुकसतीसुतः । भिक्षार्थिनी कुलान्यटति कुलटा भिक्षुकसती तस्या अपत्यं कौलटिनेयः " कुलटाया वा" ॥६।११७८॥ इत्येयण, इन् चान्तस्य ॥१॥ द्वावप्येतौ कौलटेयौ एतौ- असतीभिक्षुकसत्योः सुतौ ॥ १ ॥ क्षेत्रजो देवरादिजः ॥ २१३ ॥ क्षेत्रे जातः क्षेत्रजः, यन्मनु:. “यस्तल्पजः प्रमीतस्य क्लीबस्य व्याधितस्य वा। खधर्मेण नियुक्तायां स पुत्रः क्षेत्रजः स्मृतः" ॥१॥१॥२१३॥ खजाते त्वौरसोरस्यौ उरसा कृत औरसः, उरस्यः “उरसो याणौ” ॥६।३।१९६॥ यन्मनुः-- "वक्षेत्रे संस्कृतायां तु स्वयमुत्पादयेद् धियम्। तमौरसं विजानीयात् पुत्रं प्राथमकल्पिकम्” ॥ १ ॥ २॥ मृते भर्तरि जारजः । गोलकः जाराज्जातो जारजः, गुड्यते लज्जावशाद् गोप्यते घनि लत्वे च गोलः, के गोलकः ॥ १॥ अथाऽमृते कुण्डः अमृते जीवीत भर्तरि जाराज्जातः, कुण्ड्यते दह्यतेऽनेन कुलं कुण्डः; यत्स्मृतिः "परनार्या प्रजायेते द्वौ सुतौ कुण्डगोलको । पत्यौ जीवति कुण्डश्च मृते भर्तरि गोलकः" ॥ १ ॥ इति ॥१॥ भ्राता तु स्यात् सहोदरः ॥ २१४ ॥ समानोदर्यसोदर्यसगर्भसहजा अपि । सोदरश्च ... भ्राजतेऽनेन भ्राता “ मानिभ्राजेर्लक् च " ॥ ( उणा-८५९ ) ॥ इति तृः ॥१॥ सह तुल्यमुदरमस्य सहोदरः ॥ २ ॥ २१४ ॥ समाने उदरे जातः समानो
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy